SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० सर्गः] धर्मशर्माम्युदयम् । लब्ध्वा भवन्तमभयं जिन सार्थवाहं प्रस्थातुमुत्थितवतामयमग्रभूमिः ॥ ४० ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणिं नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कैटके सरोजवनसंकटके हरिणानपास्य सविधे हैरिणा । करटककैदलयता कॅरटं करिणः क्षताः स्फुटमिहाकरिणः ॥ ४२ ॥ क्वेदं नभः क्व च दिशः क्व च पुष्पवन्तौ ___ क्वैताः प्रकामतरलद्युतयश्च ताराः । । मन्येऽमुना नंगनिशागतिना गिलित्वा सर्व स्वमेव विहितं ननु पीनपीनम् ॥ ४३ ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयातीः । इहोच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुषःक्षणं शिवाः ॥ ४४ ॥ स्मरति स्म रतिप्रियाद्यतः क्षणमीक्षणमीलितं रतम् । परमाप रमात्र तत्तमस्तरसास्तरसा वियोगिनी ॥ ४५ ॥ अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः __साक्षादिह स्फटिकसारशिलोच्चयोऽपि । अस्मिन्वनैर्हिममयोऽत्र च चित्रकूटो ___रत्नैरनेकगिरिभिर्घटितोऽयमेकः ॥ ४६ ॥ अनेन पूर्वापरदिग्विभागयोः प्रमाणदण्डायितमत्र भारते । अयं कुबेरान्तकगुप्तयोर्दिशोरलङ्घयसीमेव टथुः स्थितोऽन्तरे ॥ ४७ ॥ ढक्का नदन्तीह भवत्यरीणां नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चैः शुचि किंनरेन्द्रे न वा शुभं गायति रोहितानाम् ॥ १८ ॥ प्रेङ्घन्मरुञ्चलितचम्पकचारुपुष्पै रघ च निर्झरजलैश्च वितीर्य पाद्यम् । १. सूर्यम्. २. अद्रिनितम्बे. ३. सिंहेन. ४. कुम्भम्. ५. आकरः खनिरेषामस्ति योनित्वेन ते. आकरजा इत्यर्थः. ६. चन्द्रसूर्यो. ७. पर्वतरात्रिचरेण. ८. म लक्षणमन्धकारम. ९. मृगविशेषाणाम. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy