SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । नृपतेः प्रश्नः । “महासेननृपतिमहिष्यां धर्मनाथोऽवतरिष्यति, तत्सेवार्थ यूयं यात्' इति महेन्द्रेणादिष्टा वयमागताः, स्वयं महेन्द्रोऽपि समागमिष्यति" इत्यादितद्वाक्यवर्णनम् । तासां नृपमहिषीसमीपे गमनवर्णनम् । तत्कृतं नृपमहिष्याः सेवनवर्णनम् । नृपमहिप्याः स्वमविलोकनवर्णनम् । प्रातरुत्थाय महिष्या नृपसमीपे स्वप्ने विलोकितं सवै कथितम्, नृपेणाप्यतिसंतुष्टेन 'तीर्थकरस्तव पुत्रतामेष्यति' इति तत्फलं कथितमित्यादिवर्णनम् । महिषीगर्भे धर्मनाथोऽवतीर्ण इति - वर्णनम् । ६ सर्गः-सगर्भाया महिष्या वर्णनम् । माघशुक्लत्रयोदश्यां पुष्पनक्षत्रे धर्मनाथस्य जन्माभूदिति वर्णनम् । इन्द्रादिकृतस्य महीपतिकृतस्य ___ च तज्जन्मोत्सवस्य वर्णनम् । ७ सर्गः-जातवेश्मनि स्थिताया महिप्या अझै मायानिमितमेकं शिशु निधाय धर्मनाथमपहृत्य शची शक्राय समर्पितवती, शक्रोऽपि तमादाय सुरगजमारुह्य देवसेनासमेतो व्योमवर्त्मना सुमेरुपर्वतं जगामेत्यादि वर्णनम् । सुमेरुपर्वतवर्णनम् । तत्र देवसेनासंनिवेशवर्णनं गजाश्वादिवर्णनं च । ८ सर्गः-सुमेरौ मणिसिंहासने शक्रो धर्मनाथमुपवेशितवानित्यादिवर्ण नम् । धर्मनाथाभिषेकोपक्रमवर्णनम् । क्षीरसमुद्रवर्णनम् । धर्मनाथाभिषेकवर्णनम् । इन्द्रादिदेवकता तत्स्तुतिः । अभिषेकानन्तरं पुनरपि धर्मनाथं तन्मातुर्नुपमहिप्या अङ्के प्रापय्य देवाः स्वानि धामानि जग्मुरिति वर्णनम् । ९ सर्गः-धर्मनाथस्य बाल्यवर्णनं यौवनवर्णनं यौवराज्यप्राप्तिवर्णनं च। विदर्भाधिनाथेन प्रतापराजेन वदुहितुः स्वयंवरे धर्मनाथानयनार्थ - प्रेषितस्य दूतस्यागमनवर्णनम् । पित्राज्ञया ससैन्यस्य धर्मनाथस्य विदर्भान्प्रति गमनवर्णनम् । मार्गे प्राप्ताया गङ्गाया वर्णनम् । १० सर्गः-विन्ध्याचलवर्णनम् । ११ सर्ग:--षड्ऋतुवर्णनम् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy