SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ सर्गः] धर्मशर्माभ्युदयम् । अथ तथाविधभाविमुतोदय श्रवणतः प्रणतः पुनरप्यसौ । प्रमदगदवागिति वाग्मिनां पतिरुवाच वचांसि मुनिं नृपः ॥ ७५ ॥ स्वर्ग संप्रति कः पुनात्ययमथो कुत्रास्य जन्मन्यभूलाभस्तीर्थकरत्वदानसुहृदः सम्यक्त्वचिन्तामणेः । इत्थं वाग्भववैभवव्यतिकरं त्वं ब्रूहि जन्मार्णवोत्तीर्णस्यास्य भविष्यतो जिनपतेः शुश्रूषुरेषोऽस्म्यहम् ॥ ७६ ॥ इति प्रीतिप्रायं बहलपुलकस्यास्य सकलं कलङ्कातङ्कानामपशकुनमाकर्ण्य वचनम् । २३ मुनिः स्पष्टं द्रष्टुं तदपरमवोदारचरितं प्रकर्षेणाका पदवधिनयनोन्मीलनविधिम् ॥ ७७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये तृतीयः सर्गः । चतुर्थः सर्गः । अथोपनिद्रावधिबोधचक्षुः स्वहस्तमुक्तावदवेक्ष्यमाणः । जिनस्य तस्यापरजन्मवृत्तं वृत्तान्तसाक्षीव मुनिभा ॥ १ ॥ यत्पृष्टमिष्टं भवतार्थीस तत्पार्थिवाकर्णय वर्ण्यमानम् । कथा कथंचित्कथिता श्रुता वा जैनी यतश्रिन्तितकामधेनुः ॥ २ ॥ स धातकीखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरुः । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भितः स्तम्भ इवेक्ष्यते यः ॥ ३ ॥ विभूषयन्पूर्वविदेहमस्य सीतासरिद्दक्षिणकूलवर्ती । एकोऽप्यनेकेन्द्रियहर्ष हेतुर्वत्साभिधानो विषयोऽस्ति रम्यः ॥ ४ ॥ राजन्ति यत्र स्फुटपुण्डरीकप्रकाशिनः शाहलशालिवप्राः । च्युता निरालम्बतया कथंचिदाकाशदेशा इव चारुताराः ॥ ५ ॥ उद्गायतीव भ्रमदिक्षुयन्त्र चीत्कारनादैः श्रुतिसुन्दरैर्यः । प्रनृत्यतीवानिललोलसस्यैः स्वसंपदुत्कर्षमदेन मत्तः ॥ ६ ॥ For Private and Personal Use Only १. रत्नत्रयस्यैव सम्यक्त्वमिति संज्ञान्तरम्. रत्नत्रयं च सम्यग्दर्शनज्ञानचारित्रलक्षणम्. २. स्फुरितावधिज्ञाननेत्रः.
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy