SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ जिनशतकम् । साक्षाद्दोष' श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्ने__तीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥१०॥ स्निग्धं मू!ऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे_ निर्मूलं लोकभर्तुश्चरणकृतमतेर्भाति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्कि शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् शृणातु ॥ ११ ॥ दक्ष दीक्षां जिघृक्षोर्मदनशरैनुदो देहतो दीप्रदीप्तीः ___ सत्स्वर्णालंकृतीयः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ ॥ यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्टुणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्यादोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ १३ ॥ मय्यप्यस्मिन्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमित कि भवझूमभामादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालीनकाले __ व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ १४ ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोंगभाक्त्वा सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येते कीव । १. भुजम्. २. जिनस्य. ३. प्रतिकूलहन्ता. ४. चरणं प्रव्रज्या. ५. कृष्णम्. ६.पापम्. ७. आशङ्कयमानः. ८. हिनस्तु. ९. शीघ्रं यथा स्यात्. १०. जिनस्य. ११. प्रकरेणानमन्ती कंधरा येषाम्. १२. आप्तो जिनस्तस्य सक्तस्तदीयः. १३. गर्वनाशके. १४. इतकि इति। अकजागमः, १५. भवञ्जायमानो भूम्रा बाहुल्येन यो भामः कोधस्तस्मादिव. १६. ग्रहणकाले. १७. सन्तः शोभना उपला मणयो येषु तानि वलयानि तेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मथासक्तिरपि. २०. इतीव। प्राग्वदकजांगमः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy