SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । जात्यादिमानविषजं विषमं विकार तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ १२ ॥ अथ मायाप्रक्रमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ।। विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ १४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसाथै न पतन्तमीक्षते यथा विडालो लगुडं पयः पिबन् ॥ ५५ ॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥ अथ लोभप्रक्रमः । यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं __गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघदृदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ १७ ॥ मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः स्वर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ १८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy