SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति श्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्भवम् ॥ ४० ॥ अथ परिग्रहप्रक्रमः । कालुप्यं जनयझंडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् ।। मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिश कि न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धि गतः ॥ ४१ ॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्र द्वेषदस्युप्रदोषः । सुकृतवनदवाग्निर्दिवाम्भोदवायु नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ ४२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कले: केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ ४३ ॥ वद्विस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तबल्लोभेघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ ४४ ॥ अथ क्रोधप्रक्रमः । यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः । चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य च. २. 'मोहधनो' क. ३. 'अन्यदहने' क. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy