SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषापहारस्तोत्रम् । प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ॥ २८ ॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ २९ ॥ न क्वापि वाञ्छा वैवृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः । न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति ॥ ३० ॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१ ॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥ ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ॥ ३३ ॥ अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यजिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसाप्यलयं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि ॥ ३५ ॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निनोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६ ॥ वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न घालवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ॥ ३७ ।। इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि ।। छायातलं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८॥ १. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टाः. ४. स्वयमेवोन्नतः, न तु क्रमेण वर्धमानः. वर्धमान इति च महावीरस्वामिनो नामान्तरम्. यथा मेरुः पूर्व गण्डशैलतुल्यस्तदनन्तरं पर्वतकल्पस्ततः कुलपर्वतोऽभूदिति न क्रमः. उत्पत्तिसमकालमेव कुलपर्वतत्वं मेरोः. एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति तात्पर्यम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy