SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन ।' यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद || ९ || पदार्थवैचित्र्यरÄस्यसंपत्सर्वस्वनिर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्यः पश्चिमोऽपि प्रथमस्तनूजः ॥ ६ ॥ स कर्णपीयूषरसप्रवाहं रसध्वनेरध्वनि सार्थवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त ॥ ७ ॥ एष्यत्यसारमपि काव्यमिदं मदीयमादेयतां जिनपतेरनधैश्चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्रमुद्राङ्गतं किमु न मूर्धनि धारयन्ति ॥ ८ ॥ दक्षैः साधु परीक्षितं नवनवोछेखार्पणेनादरा द्यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाभङ्गिविचित्रभावघटनासौभाग्यशोभास्पदं तन्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ॥ ९ ॥ जीयाज्जैनमिदं मतं शमयतु क्रूरानपीयं कृपा भारत्या सह शीलयत्यविरतं श्रीः साहचर्यव्रतम् । मात्सर्य गुणिषु त्यजन्तु पिशुनाः संतोषलीलाजुषः सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीनां जनाः ॥ १० ॥ समाप्तोऽयं ग्रन्थः । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy