SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ सर्गः] धर्मशर्माभ्युदयम् । दृप्यन्मोहचमूं विजित्य विजयस्तम्भायमानं तदा सम्मेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः ॥ १८३ ॥ तत्रासाद्य सितांशुभोगसुभगां चैत्रे चतुर्थी तिथि यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः । सार्धद्वादशवर्षलक्षपरमारम्यायुषः प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानी क्षणात् ॥ १८४ ।। अभजदथ विचित्रैर्वाक्प्रसूनोपचारैः प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्तपूजो पचितसुकृतराशिः स्वं पदं नाकिलोकः ॥ १८५ ।। इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये एकविंशः सर्गः। . श्रीमानमेयमहिमास्ति स नोमकानां वंशः समस्तजगतीवलयावतंसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती द्वापि न स्खलति दुर्गपथेषु लक्ष्मीः ॥ १ ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध स्तत्रादेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रहः स न्नेकोऽपि यः कुलमशेषमलंचकार ॥ २ ॥ लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः । क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतास यस्य वाचः ॥ ४ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy