SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ काव्यमाला। सारसेनारसे नागाः समरे समरेखया । न न दाननदाश्चेरुर्वाजिनो वाजिनोहताः ॥ ६४ ॥ उद्दण्डं यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधानां तत्र तत्र शिलीमुखाः ॥ ६५ ॥ के न बाणैर्नवाणैस्ते सेनया सेनया हताः । मानवा मानबाधान्धाः सत्वराः सत्त्वराशयः ॥ ६६ ॥ बाणैर्बलमरातीनां सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वदलं कुसुमोत्करैः ॥ ६७ ॥ मूर्धानं दुधुवुस्तत्र कङ्कपत्रक्षता भटाः । प्रभोसमाप्तौ वा प्राणानां रोहुमुत्क्रमम् ॥६८॥(अतालव्यः) त्रुट्यहिटकण्ठपीठास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिणः ॥ ६९ ॥ शरघाताद्गजैीनरसितैरुत्पलायितम् । रक्ताब्धौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तृषोत्तालाः पश्यन्तः शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ ७१ ॥ त्वद्वलैविधमारातिमारातिस्फुटविक्रमः । अखगं व्योम कुर्वाणैः कुवाणैस्तस्तरे तदा ॥ ७२ ॥ संसारसारलक्ष्म्येव वैदा स्वीकृतस्य ते । ईर्ष्णया वर्धितोत्साहा तत्र शत्रुपरम्परा ॥ ७३ ॥ पराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतः सेनया यतमानया ॥ ७४ ॥ (युग्मम्) १. रसो रागः, शब्दो वा. २. छत्रं, सिताम्भोजं च. ३. बाणा:, भ्रमराश्च. ४. नवशब्दैः. ५. आच्छादितसूर्यकान्तिभिर्वाणः, प्रकटीकृतसौरभ्यैः कुसुमोत्करेश्च ६. भया प्रभया; (पक्षे) भयेन. ७. युद्धात्पलायिता गजा इत्यर्थः. ८. उत्पलवदाचरितम्. ९. विषमा ये अगतयस्तेषां मारो मारणम्. १०. कुः पृथ्वी. ११. परेजिता आशु. १२. यत्नं कुर्वाणया. १३. स्वामिसमेतया. १४. विस्तृताहंकारया. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy