SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ सर्गः] धर्मशर्माभ्युदयम् । सदशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ॥ ५३ ॥ गङ्गोरगगुरूग्राङ्गगौरगोगुरुरुग्रगुः । रागागारिगरैरङ्गैरग्रेऽङ्गं गुरुगीरगात् ॥ ५४ ॥ (यक्षरः) अङ्गमुत्तुङ्गमातङ्गमायान्तं प्रत्यपद्यत । वात्येव वारिदानीकं सा सुषेणस्य वाहिनी ॥ ५५ ॥ अतस्तमानसे सेना संदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ ५६ ॥ (समुद्गकः) कुम्भभरिव निर्मग्नसपक्षानेकभूधरम् । उच्चुलुम्पांचकारोच्चैः स क्षणादङ्गवारिधिम् ॥ १७ ॥ निस्त्रिंशदारितारातिहृदयाचलनिर्गता ! न करिस्कन्धदनामङ्दी दीनैरतीर्यत ॥ ५८ ॥ (निरौष्ठयः) स्नेहपूर इव क्षणे तत्रोद्रेकं महीभुजः।। अस्तं यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ ५९॥ हेमवर्माणि सोऽद्राक्षीद्भाविना भाविनासिना । द्विडवलान्यत्सकेनेव निचितानि चिताग्निना ॥ ६ ॥ तद्धनोत्क्षिप्तदुर्वारतरवारिमहोर्मयः । अरिक्ष्माधरवाहिन्यो रणक्षाणी प्रपेदिरे ॥ ६१ ॥ समुत्साहं समुत्साहंकारमाकारमादधत् । ससारारं ससारारम्भवतो भवतो बलम् ॥ ६२ ॥ कोदण्डदण्डनिमुक्तकाण्डच्छन्ने विहायसि । चण्डांशुश्चण्डभीत्येव संवब्रे करसंचयम् ॥ ६३ ॥ १. गङ्गा च उरगगुरुश्च उग्राङ्गं च तद्वद्गौग या गौर्वाणी तया गुरुबहस्पतिः. उग्रा गावो बाणा मयखा वा यस्य सः. गग एवागारं येषां तेषां गरीविषप्रायः. गुरुगीमहानादः. २. सत् शोभनं अनोत बलं यस्याः सा सदानाः, अतस्तमानान् अक्षीणाहंकारान् श्यति तस्मिन्. सेना स्वामियुक्ता. सदानासारा वारणा यस्मिन्. ३. त एव घनाः. ४. वारि जलम्; (पक्षे) तरवारिः खगः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy