SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आतव्ये निजे कन्ये, विशुद्धे सूतके सति । धारिणीकुक्षि जातायाः सुताया मम सन्निधौ ॥ २५ ॥ स्निग्धाः सख्यो भविष्यन्ति, यस्मादेताः परस्परम् । ततस्तेन विनिर्दिष्टं, राजादिष्टं पुरस्तयोः ॥२६॥ ततः सूतकसंशुद्धिं कृत्वा कतिपयैर्दिनैः । निन्यतुः सह धात्रीभ्यां तौ पुत्र्यौ श्रेणिकान्तिके ||२७|| तासां रूपं समालोक्य, मुदितो नृपपुङ्गवः । नामानि कर्तुमारेभे परमोत्सवपूर्वकम् ॥ २८ ॥ मुखलक्ष्म्या जयत्येषा, सोमंश्रियमपीह यत् । सोमश्रीत्यभिधाऽमुष्या - स्तदस्तु दुहितुर्मम ॥ २९ ॥ सुन्दरी मृर्तिरेतस्याः, सुन्दरी लक्षणैरपि । सुन्दरीत्याख्ययाऽस्त्वेषा, भद्रागोभद्रयोः सुता ॥ ३० ॥ यतोभात्यधुना वर्या, कण्ठेस्याः कुसुमावली । सुता कुसुमपालस्य, ततोस्तु कुसुमावली ॥ ३१ ॥ सान्वयानीति नामानि विधाय वसुधाधवः । अलङ्कारादिभिः कन्याः, सत्कृत्य विससर्ज ताः॥ ३२॥ अवर्धन्त गतापायं कन्यकाः स्वेषु वेश्मसु । कन्दरेषु सुवर्णाद्रेः सुखं कल्पलता इव ॥ ३३ ॥ बभूवुर्वर्द्धमानास्ताः, कलादानोचितास्ततः । कलाचार्यांय पाठार्थ, (समये) तममेवाऽऽर्पयन्नृपः ||३४|| इतश्च गङ्गापुलिनविस्तीर्णे, पार्श्वद्वयसमुन्नते । मध्यभागे विनम्रे च, हंसतुलोपधानके ॥ ३५ ॥ श्वेतपदांशुकाच्छन्ने, नवनीतम्रदीयसि । तल्पेऽनल्पसुखे सुप्ता, भद्रा गोभद्रवल्लभा ॥ ३६ ।। स्वस्थानी नाति निद्राणा, शालिक्षेत्रं फलोल्वणम् । यामिन्याः पश्चिमे यामे, दृष्ट्वा स्वप्रमजागरीत् |३७| त्रिभिर्विशेषकं । १ चन्द्रशोभाम् २ नते. For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २२ ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy