SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २० ॥ www.kobatirth.org ॥ अथ द्वितीय सर्गः ॥ इतश्च भरतेऽत्रैव, पूर्वदिङ् मुखमण्डनम् । देशोऽस्ति मगधाभिख्यो, विख्यातो जगतीतले ॥ १ ॥ तत्रासीद्विबुधाजि, वृषीध्यासितमूर्जितम् । पुरं राजगृहं नाम, दिविर्षनगरोपमम् ॥ २ ॥ यत्र प्राग्जन्ममित्रेण, मेतार्यस्य दिवौकसा | बुध्ध्याऽभयकुमारस्य, प्राकारोऽकारि काञ्चनः ॥ ३ ॥ स शशास विशामीश - स्तत्पुरं श्रेणिकाभिधः । येन श्रीमन्महावीर - पादाब्जे भ्रमरायितम् ॥ ४ ॥ सर्व्वदेवाभंयोपेतः, क्षमाभृन्मौलिमण्डनः । यः श्रीवीर इवेहाभू-दग्रे च भविता जिनः ॥ ५ ॥ चारुशालीनताशीला - लङ्कारालङ्कृताः सदा । रूपसौन्दर्यसंयुक्ताः सर्व्वाज्ञाज्ञापरायणाः ॥ ६ ॥ सुनन्दा चेल्लणादेवी, धारिणीति सुविश्रुताः । समस्तान्तः पुरश्रेष्ठा - स्तिस्रस्तस्याभवन् प्रियाः | ७|युग्मम् सुनन्दा श्रेष्ठीसः सूनुं, द्वेधाऽभयमजीजनत् । रामं शत्रुमनः शल्यं कौशल्येवादद्भुतश्रियम् ॥ ८ ॥ अजीजनत् कुणिकमात्मजातं, प्राक्चेलणा हलविल्लकाभ्यां । लङ्काधिनार्थं किल कुम्भकर्ण - विभीषणाभ्यामिह कैकसीव ॥ ९ ॥ मेघकुमारनामानं धारिणी सुषुवे सुतं । प्रस्फूर्जतेजसं चारु, रत्नं रोहणभूरिव ॥ १० ॥ अथात्रैव पुरे श्रेष्ठी, श्रेष्ठो नैगमसन्ततेः । गोभद्राख्यो धनेनोचे -रासीद्वैश्रवणोपमः ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ पण्डितैः पक्षे देवैः शोभितम् २ वृषो धर्मः पक्षे इन्द्रः तत्सहितम् ३ स्वर्गोपमम् ४ अभयकुमारेण सहितः श्रेणिकः, पक्षे भयरहितः श्रीवीरः. ५ राज्ञां शीर्षमंडनः मुकुटरूपः ६ सुन्दरे लज्जालुताशीले एवालङ्कारी ताभ्यामलंकृताः ७ नाम्ना गुणेन वअभयः तम् ८ कुबेरसदृशः For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २० ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy