________________
Shri Main Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ॥३०१ ॥
www.kobatirth.org
Acharya Shri Kaila risasun Gyanmandir
फलभूतानि, तथाहि - अभयफलं चक्षुः चक्षुः फलं मार्ग इत्यादि संपत्, अथाद्याया एव विशेषोपयोगसंपदमाह - 'धम्मदयाण'| मित्यादि, धर्म्म- देशसर्वचारित्रलक्षणक्रियापरिणामगर्भ यथार्ह दयंत इति धर्मदयास्तेभ्यः ३ अत्र हेत्वंतराणां सद्भावेऽपि भगवन्त एव धर्म्मप्रदाने प्रधानहेतव इति, धर्मदयत्वं च धर्मदेशनयैव खादित्याह - 'धम्मदेसयाणं' धर्म प्रस्तुतं यथायोग्यमवन्ध्यतया देशयन्तीति धर्मदेशकास्तेभ्यः, 'धम्मनायगाणं' धर्मस्य वशीकरणात् फलभोगात् प्रवर्धनात् व्याघातरक्षणाच्च नायकास्तेभ्यः 'धम्मसारहीणं' प्रस्तुतधर्मस्य भव्यापेक्षया सम्यग्दर्शनप्रवर्तनपालनयोगात् सारथयो धर्म्मसारथयस्तेभ्यः, जह सारही सुकुसलो रहं तुरंगे तहा पयहेइ । जह नवि होइ अवाओ तुरंगमाणं रहस्सावि ॥ ५६ ॥ एवं जिणुत्तमेहिवि उस्सग्गववायपमुहजुचीहिं । एतहिओ धम्मो उवहट्ठो धम्मधम्मणं ॥ ५७॥ इह धम्मो होइ रहो तुरंगमा तस्स धारगा पुरिसा । उभयहियमुत्रसंता जिणनाहा धम्मसारहिणो ||५८ || ( ३३७-३३८-३३९) 'धम्मवरचाउरंतचक्कवहीणं' धर्म एव वरं - प्रधानं चतसृणां गतीनामंतकरणाच्चक्रमिव चक्रं मिथ्यात्वादिभावशत्रुलवनाद्धर्मचक्रं तेन वर्त्तत इत्येवंशीला धर्म्मवरचातुरंतचक्रवर्तिनस्तेभ्यः ४, 'अतः समुद्ध्यादावा' इति (हैम० ८-१पा० ) प्राकृतसूत्रवशादाचं, यथा-उत्तरओ हिमवंतो पुवावरदाहिणा तओ अंता । लवणसमुद्द | पत्ता तो भरहं चाउरंतमिणं ।। ५९ ।। ( ३४१ ) एयस्स सामिणो जह भरहाई चकवट्टिणो हुति । धम्मवरचाउरंतस्स तह जिणा चक्क| वट्टिसमा ||६० || (३४२) अहवा चउदिसि धारं चउरंतं चकमुच्चइ तहेव । दाणतवसीलभावणचउधारं धम्मचक्कमिणं ॥ ६१॥ (३४३) संपत् ६ । अथाऽऽद्ययोरेव सकारणस्वरूपसंपदमाह - 'अप्प डिहये' त्यादि, अप्रतिहते - सर्वत्राप्रतिस्खलिते वरे- क्षायिकत्वात् प्रधाने ज्ञानदर्शने - विशेषसामान्यावबोधरूपे घारयंतीत्यप्रतिहतवरज्ञानदर्शनधराः तेभ्यः, 'वियद्द्छउ माणं' छादयतीति छद्म-ज्ञानावर
For Private And Personal
शक्रस्तवव्याख्या
॥३०१ ॥