________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमोऽध्यायः
[ आकृतितो ब्राह्मशिलाकथनम् ] निविडा निर्वणा मृद्वी सुगन्धा मधुरा शिला । सर्वालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥७॥
काश्यपशिल्पे तु
Acharya Shri Kailassagarsuri Gyanmandir
काश्यपः
वृक्षस्य पूर्वभागे तु मुखं पृष्ठन्तु पश्चिमे ।
दक्षिणं व्यपार्श्व स्याद्वामपार्श्व तथोत्तरम् ॥ इति । (अ० ७९, २३ श्लो०)
परं तत्र तत्र शिलाया ऊद्बुधिः कथनं प्रतिमाया अपि ऊर्द्धाधोनिर्णयाभिप्रायकम्, अन्यथा तदुरुपयोगो दुरुपपाद एव स्यात् । एवञ्च मयमते शिलाया अधोऽग्रादिकमभिधाय मुखपृष्ठादिनिर्णयार्थम्
“मुखमुद्धरणेऽर्धोऽ`शमूद्धु भागं शिरो विदुः "
इति यदुक्तं तदपि निराकुलं सम्पद्यते । इतरथात्र शिलायाः शिरोमुखादिवचनमव्यावर्त्तकं भवेत् । श्लोके 'उद्धरणे' इत्यस्य शिलाहरणे, 'शिर' इत्यस्य च मुखपृष्ठभाग इत्यर्थः । व्यक्तमाह काश्यपशिल्पे -
६
“अधोभागं मुखं ख्यातं पृष्टमूहु गतं भवेत्” इति । ( अ० ४९, ६८ लो०) मूलश्लोके पश्चिमादिशिरस्कत्वकथनं शयानशिलाभिप्रायेण । दण्डायमानशिलायास्तु भूमिष्ठोऽशो मूलम् ऊहू भागश्चाग्रमिति ज्ञेयम् । तदुक्तं मयमते
“अग्रम मधो मूलं पाषाणस्य स्थितस्य तु” इति । ( अ० ३३, १८ श्लो० ) ७। निविडा सुलिष्टाङ्गसन्धिः, निर्वणा स्फोटकाकृतिबिन्दुरहिता । बिन्दुमाह काश्यपः.. त्रिविधा बिन्दुरेव हि ।
कृष्ण लोहनिभाकारा कृष्णभ्रमरसन्निभा ॥
शिखिपिच्छसमाकारा. ॥ इति ( अ० ४९, ४६-४७ )
सुगन्धेति स्वभावादेव सुरभिः न त्वौपाधिकगन्धवती । यथाह निन्दितशिलामधिकृत्य
देवता -- २
"वर्षातपाभिगन्धाञ्च सुकीणी क्षारवारिणा" इति ( अ० ४९, ४२ श्लो० ) अथवा वर्षातपानिभिरुत्पद्यमानो दुर्गन्ध एव न तु सुगन्ध इति तद्वर्जनमभिहितं काश्यपशिल्पे | सुवर्ण इत्र पाषाणेsपि गन्धोदभेदोऽर्वाग्रह परोक्षोऽपि अदृष्टवशात् कदाचिद् भवेदपीति नात्र विकल्पः करणीयः । मधुस नयनप्रिया सुदृश्येति यावत् ।
• मधुरस्तु रसे विषे'
"मधुरं रसवत् स्वादु प्रियेषु मधुरोऽन्यवत्" ॥ इति विश्वः ।
For Private And Personal Use Only