________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने सकृष्णः कार्तिकेयोऽब्जशक्तिखेटककम्बुभिः । गरुडध्वजस्तार्श्वस्थोऽब्जशङ्खध्वजचिह्नवान् ॥ २२ ॥ जयन्तोऽक्षचक्रदण्डपद्मादित्रसंवृतः । गोवर्धनो लसच्चक्रशङ्खपद्मर्गदां (१)हि तत् ॥ २३ ॥
इति श्रीहरेश्चतुर्विंशतिमूर्तयः । मत्स्यकूर्मी स्वस्वरूपौ नृवराहो गदाम्बुजम् । (२) बिभृत्स्यामो वराहास्यो दंष्ट्राग्रे तु धृता धरा ॥ २४ ॥
[इति मत्स्यकूर्मवराहाः] नृसिंहः सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः । हिरण्योरस्थलासक्तविदारणकरद्वयः ॥ २५ ॥
[इति नृसिंहः] वामनः सशिखः श्यामो दण्डी (३)पीताम्बुपात्रवान् । (४) जटिलीनधरो रामो भार्गवः परशुं दधत् ॥ २६ ॥
- [इति वामनपरशुरामौ] रामः शरेषुधृक् श्यामः सशीरमुशलो बलः ।
[इति रामबलरामौ] (५) बद्धपद्मासनो रक्तस्त्यक्ताभरणमूर्धजः ॥ २७ ॥ कषायवस्त्रो ध्यानस्थो द्विभुजोऽकोर्द्धपाणिकः ।
[इति बुद्धः] कल्की सखड्गोऽश्वारूढो हरेरवतरा इमे ॥ २८ ॥
[इति कल्की]
इति दशावताराः। (६)सुप्तरूपं शेषतल्पे (७)दक्षो दण्डभुजोऽस्य तु। शिरोधरो वा वामस्तु सपुष्पोऽयं जलेशयः ॥ २९ ॥
(१) 'दधत्' इति स्यात् । (२) 'बिभ्रन् श्यामो' इति स्यात् । (३) 'वाम्बुपात्रवान्' इति स्यात् । (४) 'जटी बाणधरो' इति स्यात् । (५) 'बुद्धः पद्मासनो' इति स्यात् । (६) 'सुप्तरूपः' इति स्यात् । (७) 'दक्षे दण्डो भुजेऽस्य तु' इति स्यात ।
For Private And Personal Use Only