SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रूपमण्डने [ गृहपूज्यप्रतिमामानम् ] आरभ्यैकाङ्गुलादूर्द्ध पर्यन्तं द्वादशाङ्गुला । गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥ ७ ॥ [ देवालय पूज्यप्रतिमामानम् ] तदूर्द्धं नवहस्तान्तं पूजनीया सुरालये । [ अनावृत देशपूज्यप्रतिमामानम् ] दशहस्तादितो यार्चा प्रासादेन विनाऽर्चयेत् ॥ ८ ॥ दशादि (१) करषष्ठ्या तु षट्त्रिंशत् प्रतिमा ( : ) पृथक् । बाणवेदकरान् यावत् (२) चतुष्कां पूजयेत् सुधीः ॥ ९ ॥ [ प्रतिमाघटनद्रव्याणि ] अष्टलोहमयी मूर्तिः शैलरत्नमयी शुभा । श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥ १० ॥ [ जीर्णोद्धारविधिः ] Acharya Shri Kailassagarsuri Gyanmandir (३) अतीतब्दः शता (४) मूर्त्तिः पूज्या स्यान्महत्तमैः । खण्डिता स्फुटिताऽप्यर्च्य अन्यथा दुःखदायका ॥ ११ ॥ धातुरत्नविलेपोत्था व्यङ्गा ( : ) संस्कारयोग्यका ( : ) । काष्ठपाषाणजा भग्ना(:) संस्काराही न देवताः ॥ १२ ॥ [ भीषणदेवतास्थानम् ] भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥ १३ ॥ नरसिंहो वराहो वा तथाऽन्येऽपि भयङ्कराः । [ दुष्टाः प्रतिमाः ] नाधिकाङ्गा न हीनाङ्गाः कर्त्तव्या देवताः क्वचित् ॥ १४ ॥ (१) ' -करवृद्धया' इति स्यात् । (२) 'चतुष्कयाम्' इति स्यात् । (३) 'अतीताब्दशता' इति स्यात् । (४) 'मूर्तिर्या पूज्या' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy