________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः
रूपमण्डनम्
प्रथमोऽध्यायः
[ग्रन्थारम्भः] विश्वरूपं नमस्कृत्य पूर्वतन्त्रानुसारतः । मण्डनस्तनुते वास्तुशास्त्रं श्रीरूपमण्डनम् ॥ १॥
[ मूर्तीनां कर्त्तव्यतोपदेशः] प्रासादे लिङ्गमूर्तीनां प्रमाणं शास्त्रलक्षतः । मनुष्यपशुपक्ष्यादिरूपं कुर्यात्तदाकृतेः ॥ २ ॥
[प्रशस्तशिलालक्षणम् ] निविडा निर्बणाऽमृद्वी सुगन्धा मधुरा शिला । सवीर्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥ ३ ॥
[दुष्टशिलालक्षणम् ] विमलं हेमकांस्यादिचिह्नं लोहमयञ्च यत् । तथाऽन्यद्विविध चिह्नं प्रतिमायां भयावहम् ॥ ४ ॥
[पुनः शुभशिलालक्षणम् ] कपोतभृङ्गकुमुदमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सौर्चासु शुभा शिला ॥ ५ ॥
[शिलाहरणदिनादिनिर्देशः] सुदिने सुमुहूर्ते च शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कुर्यान्न चान्यथा ॥ ६ ॥
For Private And Personal Use Only