________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् वामे चापमधो घ(ण्टा ? ण्टां) कमल कुकुट(स्त्व ? न्व)धः। परशु बिभ्रती दक्षे तदधस्त्वभयान्विता ॥ ६७ ॥
[इति कौमारी ] वैष्णवी ताय॑गा श्यामा षड्भुजा वनमालिनी। वरदा (दा ? ग)दिनी दक्षे दधती चाऽऽयुधस्रजम् ॥६८॥ शङ्खचक्राभ(या ? यैः) वामे (सचैर्य ? सा चैव) विलसद्भुजा।
[इति वैष्णवी ] कृष्णवर्णा तु वाराही शूकरास्या महोदरा ॥६६॥ वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा। खेटपाशाभ(या ? यः)वामे सैव चापि लसद्भुजा ॥७॥
- [इति वाराही ] ऐन्द्री सहस्रक सौम्या हेमाभा गजसंस्थिता। वरदा सूत्रिणी वज्र बिभ्रत्यूद्धे तु दक्षिण । वामे तु कलशं पात्रमभयं तदधःकरे ॥ ७१ ॥
[इति ऐन्द्री] चामुण्डा प्रेतगा रक्ता विकृतास्याऽहिभूषणा। दंष्ट्र(दा ? ला) क्षीणदेहा च गर्ताक्षी भीमरूपिणी ॥ ७२ ॥ दिगबाहुः क्षामकुक्षिश्च मुसलं ( चक्रयं ? चक्रकं ) शरः। अङ्कु(शी ? शं) विभ्रती खड्गं .. ... चाप्यथ वामतः ॥७३॥ खेटं पाशधनुर्दण्डकुठारं (वे? चे)ति बिभ्रती।
- [इति चामुण्डा ] ६९ । शङ्खचक्राभयैरिति । वामभागे शङ्खचक्रादिभिर्विलसदभुजेत्यन्धयः । ७१ । ऊ? इत्य्टु क्रमेण । ७३ । 'अङ्कशं बिभ्रती खड्ग' इस्यनन्तरं त्रटितस्थाने 'सव्ये' इति स्यात् ।
For Private And Personal Use Only