________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः
१५७ अथातः संप्रवक्ष्यामि (मात ? मातृ)रूपाणि ते (जया? जय)। तत्र ब्राह्मी चतुर्वक्ता (पाठ ? षड्भुजा हंससंस्थिता ॥ ६१ ॥ पिङ्गलीभूषणोपेता मृगचर्मोत्तरीयका। वरं सूत्रं कजं धत्तं दक्षबाहुलये कमात् ॥ ६२ ॥ वामेषु पुस्तकं (कुण्डी ? कुण्डी) बिन(र्ती ? ती) चाभयप्रदा।
[इति ब्राह्मी ] माहेश्वरी वृषारूढा पञ्चवक्ता त्रिलोचना ॥ ६३ ॥ बालेन्दुभृजजटाजूटसुशोभा सर्वसौख्यदा। षड्भुजा ( दर ? वर )दा दक्षे सूत्रं डमरुकं तथा ॥ ६४ ॥ शूल घण्टाभयं वामे सैव धत्ते महाभुजा।
[इति माहेश्वरी] कौमारी रक्तवर्णा स्यात् षड्वक्ता सार्कलोचना ॥ ६५ ॥ रविवाहुर्मयूरस्था वरदा शक्तिधारिणी। पताका बिभ्रती दण्डं (पानं ? पाशं) बाणञ्च दक्षिणे ॥ ६६ ॥
करोटीति । करोटिनिकरण ललाटास्थिसमूहन ग्रथिता या उदारा महती माला तया ग्रन्थितः शेखरः शिरस्यकेशजूटो यस्य सः। अयमेव पाठः साधीयानिति प्रतिभाति, शिल्परने (उ० अ० २५, श्लो० १०८) 'नानानागविभूषितत्व'स्योक्तत्वेऽपि रूपमण्डनीयपाठश्रिन्त्य एव ।
___६१ । इदानीं सप्त मातर्लक्षयति-अथात इति । 'जय' इति विश्वकर्मणोऽन्यतममानसपुत्रस्य नाम । शिल्पशास्त्रस्य प्रवक्ता विश्वकर्मा बोद्धव्यश्च तत्पुत्रेवन्यतमो जयो नामेति प्रसिद्धिरिति युज्यत एव तत्सम्बोधनम् ।
६२ । पिङ्गली सुवर्णम् । कज पद्मम् । दूरभिन्नमेवास्य लक्षणं शिल्परत्न- (उ० अ० २५, श्लो० ७६ ) रूपमण्डनयोः (अ० ५, श्लो० ६१-६३)। तयोरियं चतुर्भुजा।
६३ । इयमपि चतुर्भुजा शिल्परत्नरूपमण्डनयोः ।
६५। सार्कलोचनेति । सा अर्कलोचनेति च्छेदः, अर्कलोचना द्वादशनेत्रा। यद्वा, अर्कलोचनैः सह वर्तमानेति विग्रहः। रविबाहुादशभुजा। इयमपि शिल्परत्र-रूपमण्डनयोअतुर्भजा।
For Private And Personal Use Only