________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमोऽध्यायः
अथ गौरीं प्रवक्ष्यामि प्रमाणं मूर्त्तिलक्षणम् । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । गोधासनोपरिस्था च कर्त्तव्या सर्वकामदा ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ इति गौरीमूर्त्तीनां सामान्यलक्षणम् ] ( उत्तमा? उमा च ) पार्वती गौरी ललिता च श्रिया तथा । कृष्णा च हिम ( वन्ति ? वन्ती) च रम्भा च सावित्री तथा । लिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः ॥ २ ॥
[ इति गौरीनामानि ] अक्षसू ( त्रा?त्रं ) च कमलं दर्पणञ्च कमण्ड ( लु ? लु ) । उमाना ( नि? म्नी ) भवेन्मूर्त्तिः पूजिता त्रिदशैरपि ॥ ३ ॥
[ इत्युमा ]
अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् । अग्निकुण्डोभये पत्ते पार्वती पर्वतोद्भवा ॥ ४ ॥
[ इति पार्वती ]
'चतु
१। पञ्चमाध्याये वैष्णव प्रकरणे शिलाच लक्षणं विष्णोर्मूर्त्यन्तराणि च प्रतिपादितानि । षष्ठे शैवे शिवमूर्त्तिः शिवलिङ्गानि प्रसङ्गतो मण्डपत्रिषये विशेषाश्च प्रतिपादिताः । अन्तरा सप्तमे जैनाधिकारे जिनतदुपासक तच्छासनदेवताः सलक्षणाः साभिधानाः प्रतिपाद्याष्टमे शाक्ताधिकारे शक्तीनां मूर्तीर्वक्तुमासां गौर्यशतया मूलीभूतां गौरीं लक्षयति – अथेति । भुंजा त्रिनेत्रा च सर्वाभरणभूषिते 'ति अविशेषेण सर्वासामेव गौरीमूर्त्तीनां लक्षणम् ; अत एव प्रत्येकलक्षणे भुजनेत्रादीनामुल्लेखो न कृतः । 'गोर्याः प्रवक्ष्यामी' ति रूपमण्डने पाठः । ( ५1१) । २। कास्तावद गौर्या मूर्तय इत्यपेक्षायामाह - उमा वेति । अयमासामू उद्देशः । मण्डने अयमुद्देशनिर्देशो नास्ति । तत्र 'अथ गौर्याः प्रवक्ष्यामीत्युपक्रम्यैव क्रमेणाssसां लक्षणानि लिखितानि ।
रूप
For Private And Personal Use Only
४ । 'अग्निकुण्डोभये पक्षे' इत्यत्र 'पक्षद्वयेऽग्निकुण्डञ्च' इति रूपमण्डने (५१२ ) ऋज्वर्थः
पाठः ।