SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् शीतले नाथे [स्याद् ] ब्रह्मा व्यक्षः (श्वेतमुखाज्वरथा?)। लुङ्गं मुद्गरपाशौ चाभयाक्षाङ्कुशगदानकुलम् ॥३६॥ [इति ब्रह्मा १० ] अशोका (मुद्र ? मुद्ग)वर्णा स्यात् (प्रमा ? पद्मा) रूढा चतुर्भुजा। वरदं नागपाशं चाशं वै बीजपूरकम् ॥३७॥ [इत्यशोका १०] श्रेयांस ईश्वरो यत्तस्त्र्यक्षः श्वेतो वृषासनः। मातुलिङ्गं गदां चैवाङ्कुशं च कमलं क्रमात् ॥ ३८॥ [इति यक्षेट् ११ ] चतुर्भुजा गौरवर्णा मानवी सिंहवाहना। अङ्कशं वरदं हस्तं नकुलं मुद्ग(लं ? रं) तथा॥ ३६ ॥ . [इति मानवी ११] वासपूज्ये कुमारः स्याच श्वेतो वै हंसवाहनः । मातुलिङ्गञ्च बाणञ्च धनुर्नकुलमेव च ॥४०॥ [इति कुमारः १२ ] विमले षण्मुखः श्वेतः (शिषी ? शिखि) स्थः फलचक्रभृत् । बाणं खड्गश्च पाशाक्षमभयाङ्कशखेटकम् । ३६ । 'श्वेतमुखोज्ज्वल' इति वा, 'श्वेतमखोऽजगः' इति वा 'श्वेतमखाम्बुज' इति वा स्यात् । अतिसाहसं पुनः 'व्यक्षश्चाष्टभुजोऽजगः' इति कल्पनम् । लुङ्गमिति मातुलुङ्गः, अमरसः फलविशेषोऽयम् ।। ४०। वासपूज्यस्य यक्षः कुमारोऽनेन लक्षितः, क्रमप्राप्ता शासनदेवता चण्डा पुनर्न लक्षिता, तदयं लिपिकृत्पमादो वा ग्रन्थकृतः स्खलनं वेति सुधीभिश्चिन्तनीयम् । प्रचण्डा श्यामवर्णा स्याद् अश्वारूढा चतुर्भुजा । वरदं च तथा शक्तिर्गदाम्बुजमनुक्रमात् ॥ इति रूपावतारे। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy