________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
सप्तमोऽध्यायः श्यामा च श्यामवर्णा स्यानरारूढा चतुर्भुजा। वरं बाणाभयं चापं तस्या हस्तेषु च क्रमात् ॥ २६ ॥
[इति श्यामा ६] सुपार्वे नीलवर्णः स्यान्मा ( तङ्गे ? तङ्गो ) गजवाहनः । हस्तेषु (निल? शूलं)पाशं चाकुशं च नकुलं तथा ॥ ३०॥
[इति मातङ्गः ७] शान्ता [ भवेत् ] सुवर्णास्या गजारूढा चतुर्भुजा। वरदं चाक्षसूत्रं चाभयं तस्मात्तिशूलकम् ॥ ३१ ॥
[इति शान्ता ७ ] चन्द्रप्रभस्य विजयो त्रिनेत्रो हंसवाहनः । द्विभुजो नीलवर्णः स्याचक्रं च मुद्गरं कमात् ॥ ३२ ॥
[इति विजयः ८] भृकुटिः पीतवर्णा स्यात् सिंहारूढा चतुर्भुजा। खड्गं तथा मुद्गरञ्च परशुखेटकं कमात् ॥ ३३ ॥
- [इति भृकुटिः ८ ] अजितः पुष्पदन्तस्य कूर्मारूढ (:) सितो भवेत् । बीजपूराक्षसूत्रश्च कुन्तञ्च नकुलं क्रमात् ॥ ३४ ॥
[इत्यजितः, जयः ९] सुतारका श्वेतवर्णा वृषारूढा चतुर्भुजा। वरदं चाक्षसूत्रं चाशं च कलशं भवेत् ॥ ३५ ॥
[इति सुतारका ९] ३०। नकुलं वाद्ययन्त्रविशेषः । ३२ । 'त्रिनेत्र' इत्यत्र 'द्विनेत्र' इति पाठः श्रेयान् , द्विभुजमूतौ नेत्रत्रयस्य विरलदर्शनत्वात् । पूर्वपदे सन्धिजा विकृतिरप्येतदेव मतमनुकूलयति । ३३ । भृकुटिरित्युद्देशश्लोके (१४)।
देवता-१८
For Private And Personal Use Only