________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
देषतामूत्तिप्रकरणम् (६)अर्धचन्द्रा (१०)त्रिकोणा च विज्ञेया दश पीठिकाः।
[पीठिकालक्षणम् ] चतुरस्रा स्थण्डिला स्यात् संयुता मेख(ला?ले)कया ॥१४२॥ चतुरस्रा यदा वेदी सर्वकामफलप्रदा ।
[इति स्थण्डिला(१)] कर्तव्या मण्डलाकारा मेखलाभिरलङ्कता। मण्डला सा तु विज्ञया गणानां सिद्धिहेतवे ॥१४३॥
इति मण्डला(५)] पूर्णचन्द्र (विनि)भाकारा मध्यन्यस्तद्विमेखला । विज्ञेया पूर्णचन्द्रा सा रुद्राणीशतसंप्रिया ॥१४४॥
[इति पूर्णचन्द्रा(६)] षडस्रा च भवेद्वजा मेखलात्रयभूषिता।
[इति वज्रा(७)] षोडशास्रा भवेत् पद्मा किश्चिञ्च(स्यास्यान्)
मृणालवत् ॥१४५॥
__[इति पमा ८)] लग्नज्यधनु(षारा)काराऽर्धचन्द्रा चैव सा भवेत् ।
[इत्यर्धचन्द्रा(ह)] यस्रा त्रिकोणा विज्ञेया सा शक्त्या सहशा भवेत् ॥१४६॥
[इति त्रिकोणा(१०)]
[ आसां फलम् ] स्थण्डिला पीठिका यत्र धनधान्यार्थदायिनी। महिषीगोप्रदा वापी यक्षी सर्वार्थदायिनी ॥१४॥ १४६ । लमज्येति ज्यायुक्तधनुराकृतिरित्यर्थः ; एवं ह्यर्द्धचन्द्राकृतिर्भवेत् ।
१४७। इदानीं पीठिकानां नामभेदेन फलान्याह-स्थण्डिलेति । अत्राऽऽद्यायाः स्थण्डिलायाः परं चापीयक्षीधैरीणां तिसृणां पीठिकानां लक्षणं नोपलक्ष्यते । फलकथनप्रस्तावे पुनर्वापीयक्ष्यो मनी दृश्येते, वैरी तु वैरायमाणेष दृष्टिपथं परिहृतवती ।
For Private And Personal Use Only