________________
Shri Mahavir Jain Aradhana Kendra
१२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्त्तिप्रकरणम्
ऊर्द्धकृशं यदा लिङ्गं स्थूलं चाधो निवेशयेत् । तदा (भु ? मुक्तिं विजानीयात् संसा(रस्थिति ? रोच्छित्तिकारणम् ॥ ११० ॥
[ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ]
ह्रस्वं दीर्घं (कृश? शं) स्थूलं पण्डं कुब्जञ्च वामनम् । त्र्य (स्तं ?स्त्र ) पीठं चतुरस्र स्थूलाग्रं चक्रसंयुतम् ॥ १११ ॥ रे (पाखा) कीलकसंयुक्तं सुवर्णं च निवर्णकम् । रक्तं कृष्णं तथा श्यामं पीतं शुक्लं च पाण्डुरम् ॥ ११२ ॥ सदोषगुणसंयुक्तं बाणं पूज्यञ्च नित्यशः । बलालक्ष्मी समाकृष्य भुज्यते बाणलिङ्गतः ॥ ११३ ॥ तस्माच्छतगुणं (पुष्पं पुण्यं) तत्संस्थापनपूजनात् । बाणलिङ्ग तथा पूज्यं तत्संस्थापनमुत्तमम् ॥ ११४ ॥
[ बाणस्थापनप्रशंसा ]
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् ।
तत् फलं कोटिगुणितं प्राप्यते लिङ्गस्थापनात् ॥ ११५ ॥ यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् । सर्वागमोदितं पुष्पं ? यं) कोटिकोटिगुणं भवेत् ॥ ११६ ॥ शतवारं कुरुक्षेत्रे सहस्र' जाह्नवीषु च । नर्मदायाञ्च लक्षण कोटिं च कुरुजाङ्गले ॥ ११७ ॥ कृत्वा स्नानञ्च (पी ? पिण्डञ्च हुतं दानञ्च भोजनम् । गुणितं कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ११८ ॥
११० । ऊर्ध्वकृशमिति । पूर्वं 'भुक्तिमुक्तिकरं बाणम्' इत्युक्तम्, तत्र कीदृशं भुक्तिकर atri at मुक्तिरमित्येतदाह श्लोकद्वयेन, तत्रापि पूर्वश्लोके भुक्तिदलिङ्गलक्षणमुक्तमितीदानीं मुक्ति लिङ्गलक्षणमाहेत्यवधार्य अर्थवानपि यथाश्रुतः पाठो विपरिवर्त्तित इति ज्ञेयम् ।
For Private And Personal Use Only