SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ देवतामूत्तिप्रकरणम् [दारवलिङ्गनामानि ] (१)मकरेन्दु च (२)मालक्यं (३)पुष्पं (४)सिद्धार्थकं ततः। (५)दण्डाख्यं (६)प्रौरवं (७)काम्यं (८)पुष्पकञ्च (६)फलोद्भवम् ॥६४॥ [लिङ्गोचितवृक्षाः ] श्रीपर्णी शिशुकाशोकः शिरी(ष ? षः) खदिरोऽर्जुनः । चन्द(न ? नः) श्रीफलो निम्बो रक्तचन्दनवीर्यको ॥६५॥ कपरो देवदारुश्च स्यन्दनः पारिजातकः। चम्पको मधुवृक्षश्च (हिताश्चागरुड,हिन्तालश्चागुरुः) शुभः॥६६॥ [वृक्षाणां लक्षणोद्वारः] नित्र (णा ?: सु ) दृढा वृक्षा लिङ्गार्थे सौख्यदाय(कः ? काः)। ग्रन्थिकोटरसंयु(क्ता ?क्ताञ्) शाखो (ता तान्) परित्यजेत् ॥ ६७ ॥ [लिङ्गोचितानि गृहाणि] निलयं दारुलिङ्गानाम् इष्टकादारुजं शुभम् । शैलजं धातुलिङ्गानां स्वरूपं वाऽधिकं शुभम् ॥६८॥ इति दारुजा(ती ? नि) । [शैललिङ्गमानम् ] एकहस्तादिमं लिङ्गं हस्तवृद्धया नवान्तिकम् । शैललिङ्गस्य मानन्तु हस्त(हितं ? हीनं) न कारयेत् ॥६६॥ इति द्वितीयपादे शुद्धिः कृता। ततश्च षोडशाङ्गुललिङ्गमारभ्य एकैकाङ्गुलवर्धनाद रसहस्तं यावल्लिङ्गानि यथोक्तसंख्याकान्येव स्युरिति सर्वमनवद्यम् । 'भारसे'त्यादावाङ् मर्यादायाम् एकाङ्गुलोनरसहस्तान्तमित्यर्थः, एवमेवाष्टाविंशोत्तरशतसंख्या स्यात्। मध्ये शुद्विस्तु प्रास्ताविक्येव । ६४। नवानां लिङ्गानां नामान्याह-मकरेन्दु चेति । ६५। लिङ्गवृक्षानाह-'श्रीपर्णी'त्यादि हिन्तालबागुरुः शुभः' (६६) इत्यन्तेन । 'स्यन्दम' इत्यत्र 'चन्दन' इति प्रामादिकः पाठो रूपमण्डने (अ० ४, श्लो० ५६)। ६९। शैललिङ्गमानमाह-एकेति। एकहस्ततो नवहस्तान्तं शैललिङ्गं कुर्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy