________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
egisterयः
[ दारवलिङ्गमानम् ]
षोडशाङ्गुललिङ्गञ्च ( षोडशा ? एकैका ) ङ्गुलवर्धनात् । लिङ्गा ( ना ? न्या) रसह (खा ?स्ता) न्तमष्टाविंशोत्तरं शतम् । क्रमेण नव लिङ्गानां षट् ( का ? क) रान्तानि संख्यया ॥ ६३ ॥
रूपमण्डनेऽपि -
Acharya Shri Kailassagarsuri Gyanmandir
पदव्यावर्त्तनीयमनेनाऽऽद्यपादेन दर्शितम्, तथाच पीठिका लोहमिश्रा न कर्त्तव्येति वर्चुलोऽर्थः । यद्वा लोहमिश्र लोहान्तरमिश्रं लिङ्गमिति शेषः, न कर्त्तव्यम् । एवञ्च यथाश्रुत एव पाठः प्रथमपादे |
स्वमात्रेति । लिङ्गं स्वमात्रयोनिसंयुतं कर्तव्यम् इत्यन्वयः । स्वमात्रं येम धातुना कृर्त लिङ्ग तन्मात्रं तेन कृता योनिः पीठिका तया संयुक्तं लिङ्गं कुर्यादित्यर्थः, न त्वेकेन धातुना घटिते लिङ्ग धात्वन्तरेण पीठिका कर्तव्येति भावः । तदेतत् सर्वं विशिष्याऽऽह शिल्परनेस्वयोनिः पीठिकैव स्याच्छैलादीनामदूषणा । भावे वैष्टक शैले रखजानां हिरण्मयी ॥ राजती ताम्रजा वा स्याच् श्रेष्ठमध्याधमक्रमात् । न्यूमै परलोहानामिष्टकाभिश्च दारये ॥ इति ।
( उ० अ० १, ५७-५८ लो० )
रत्रलिङ्ग द्विधा ख्यातं स्वपीठं धातुपीठकम् । धातुजन्तु स्वयोनिस्थं सिद्विभक्तिप्रदायकम् ॥ ताम्रजं पुष्परागस्य स्फाटिकस्य तु राजतम् । ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ इति
१०७
For Private And Personal Use Only
( रूप० अ० ४, ४२-४३ श्लो० )
एवमुत्तरपादे सम्भविनमर्थं प्रसवानोऽपि यथाश्रुतः पाठः प्रमाणान्तरानुग्रहाभावादुपेक्षितः । अतिरोहितार्थश्च यथाश्रुतः पाठः । उक्तमर्थं रत्रलिङ्गेऽप्यतिदिशति - कर्तव्यमिति । सन्नप्यन्यत्र tafoङ्गविषये विशेषो नेह प्रपञ्चित इति द्रष्टव्यम् ।
६३ । षोडशेति । एवमेव शिल्परत्न ( उ० अ० २, श्लो० ५६ ) रूपमण्डनयोः ( अ० ४, लो० ५२ ) । श्रयर्धस्यास्य पद्यस्य प्रथमार्धं यथोक्तशोधनं विना मध्यमाधै लिङ्गसंख्या दुरुपपादा | तथाहि येयमष्टाविंशोत्तरं शतम्' इति संख्या श्रूयते सा किं लिङ्गानामुताङ्गुलीनामिति विचार्यमाणे न लिङ्गानामित्यापातत आयाति । कथमिति चेद् रसस्तमवधीकृत्य षोडशाङ्गुलादारभ्य षोडश - षोडशवर्धनेन नचैव लिङ्गानि भवेयुर्न यथोक्तानि । नाप्यङ्गुलीनाम्, यथोक्तसंख्याकाभिरङ्गुलीभी रसहस्ता निष्पत्तेः । तस्मादत्र कचित् कश्चिद भ्रमः कल्पनीय