SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ षष्ठोऽध्यायः चतुर्वक्तमष्टबाहु चतुष्ककनिवासिनम् । ऋद्धा(2)मुखगतः कार्यः पद्महस्तो दिवाकरः॥४४॥ खटाङ्गत्रिशूलहस्तो रुद्रो दक्षिणतः शुभः । कमण्डलुश्चाक्षसूत्रमपरस्थः पितामहः ॥ ४५ ॥ शङ्खचक्रधरो हरिर्वामे चैव तु संस्थितः। एवं विधेय(१)कर्त्तव्यं सर्वकामफलप्रदम् ॥ ४६॥ इति (सूर्य?)हरिहरपितामहः । षड्भुजञ्च चतुर्वक्त सर्वाभरणभूषितम् । कमण्डलुश्चाक्षसूत्रमुभयोः कमलधृत्करम् ॥४७॥ मणा(?)लोद्धे युग्महस्ते कर्त्तव्ये शुभलक्षणे। सर्वाभरणसंयुक्त सर्वकामफलप्रदम् ॥ ४८ ॥ इति चन्द्रापितामहः । लेलिहन्तं दंष्ट्राकरालं चण्डभैरवमुत्तमम् । एकवक्तशूलहस्तं खड्गशक्तिशराङ्कुशम् ॥ ४६ ॥ वरदं दक्षिणे ज्ञेयं खटाङ्गं खेटकं तथा। चापं तथाऽभयं चैव कपालं वामहस्तके ॥५०॥ लक्षणयोभिन्नतयैकस्य वस्तुनः प्रतिपादकत्वानुपपतेः। तस्माद द्वितीयहरिहरपितामहलक्षणे 'दिवाकर' पददर्शनात् सूर्यहरिहरपितामहस्येदं लक्षणमिति निश्चिनुमः । 'तनुत्रयनिवासिनमिति सम्भाव्यमाने पाठे एतेषां पृथङ्मूर्तयः कर्त्तव्या इत्यर्थः। ४४। चतुर्वक्तमिति द्वितीयान्तपदानामन्वयो दुर्घटः। चतुष्कैकनिवासिनमिति, एकस्मिन् चतुष्कोणे स्थाने चतुष्कोणवत्यासने वा समासीनम् । ऋद्धामुखगत इति, रुद्रस्य दक्षिणे, हरेर्वामे, पितामहस्य पश्चिमे सन्निवेशदर्शनादयं पूर्वदिक्स्थ इत्यायाति, क्वचित्तदर्थयोतकमिदं पदं स्यादनर्थकं वेति सुधीभिर्भाव्यम् । ४६। द्वितीया 'एवंविधोऽयं कर्तव्यः सर्वकामफलप्रदः' इति स्यात् । ४७-४८ । चन्द्राङ्कपितामहोऽनुसन्धेयस्वरूपः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy