________________
Shri Mahavir Jain Aradhana Kendra
१०२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्त्तिप्रकरणम्
शिवनारायणं वक्ष्ये सर्वपापप्रणाशनम् । वामा माधवं विद्यादक्षिणे शूलपाणिनम् ॥ ३६ ॥
बाहुद्वयञ्च कृष्ण (ञ्च स्य) मणिकेयूरभूषितम् । शङ्खचक्रधरं शान्तमारक्ताङ्गु(ली? लि) विभ्रमम् ॥ ३७ ॥ स्थाने गढ़ (i) वाऽपि पाणौ दद्यादधस्तने । शेषं वा दक्षिणे दद्यात् कव्यधं भूषणोज्ज्वलम् ॥ ३८ ॥ पीतवस्त्रपरीधानं चरणं मणिभूषितम् । दक्षिणार्धजटाभार (मर्थं दुष्कृत? मर्द्धेन्दुकृत) लक्षणम् ॥ ३६ ॥ भुजङ्गहारवलयं वरदं दक्षिणं करम् । द्वितीयं चापि कुर्वीत त्रिशूलवरधारिणम् ॥ ४० ॥ व्यालोपवीतसंयुक्तं कव्य (धं कृत? कृत्ति) वाससम् । मणिरत्रैश्च संयुक्तं पादं नागविभूषितम् ॥ ४१ ॥
इति शिवनारायणः |
एकपीठसमारूढं तनु (त्येक ? लय) निवासिनम् । षड् (वक्तञ्च ? भुजञ्च ) चतुर्वक्तुं सर्वलक्षणसंयुतम् ॥४२॥ अक्षसूत्रं विशूलञ्च गदाश्चैव तु दक्षिणे । कमण्डलुञ्च खट्राङ्गं चक्रं वामभुजे तथा ॥ ४३ ॥
इति ह (रो? रि) हर (पी? पि) तामहः ।
३८ । 'शेषं वा दक्षिणे दद्यादित्यत्र 'शङ्ख वैघोत्तरे दद्यादिति मत्स्यपुराणे ( २६० अ०, २४ श्लो० ) पाठः ।
४२ । द्वाचत्वारिंशश्लोकान्तिचत्वारिंशश्लोकं यावदेकं हरिहरपितामहलक्षणम्, पुनश्चतुचत्वारिंशश्लोकात् षट्चत्वारिंशश्लोकं यावदन्यद् हरिहरपितामहलक्षणमिति किमभिसन्धानमूलेयं लक्षणद्वयीति नावधारयामः । न चैका पुष्पिकैव खपुष्पायतामिति वाच्यम् ; उभयो
;
For Private And Personal Use Only