________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः । पश्चिमे (स्याद् ? स्यात्त गोविन्द उत्तरे मधुसूदनः ॥१०६॥ ईशाने स्थापयेद् विष्णुमाग्नेय्याञ्च जनार्दनम् । नत्ये पद्मनाभञ्च वायव्यां माधवं तथा ॥१०७॥ केशवं मध्यतः स्थाप्यमथवा वासुदे(वं करम् ? वकम् )। सङ्कर्षणप्रद्युम्नौ चानिरुद्धञ्च यथाक्रमम् ॥ १०८ ॥ जलशायी तथा प्रोक्तो दशावतारसंयुतः। शूकरश्चाग्रतः स्थाप्यः सर्वदेवमयः शुभः ॥ १०६ ॥
इति विष्णायतनम्। प्रतीहारांस्ततो वक्ष्ये अष्टौ चतुर्षु दिक्षु च । तस्यानुक्रमरूपञ्च लक्षयेद् यस्य यादृशम् ॥ ११० ॥ वामनाकाररू(पै? पा)श्च कर्त्तव्याः सर्वतः शुभाः। तर्जनीशङ्खचक्रं चेदं प्राग दक्षिणक्रमात् ॥ १११ ॥ (द ? चण्डाभिधानकः प्रो(क्ता शस्त्रा? क्तोऽस्या)पसव्ये
प्रचण्डकः। वामे चण्डः प्रकर्त्तव्यः प्रचण्डो दक्षिणे तथा ॥ ११२ ॥ १०६ । 'गोविन्दः पश्चिमे स्थाप्य' इति रूपमण्डने ( ३ अ० ६३ श्लो०) पाठः । १०८। 'केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः ।
सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥' इति रूपमण्डने पाठः । ११०। यस्य प्रतीहारस्य यादृशमनुक्रमरूपं भवेत् , तस्य तादृशमनुक्रमरूपं लक्षयेत् , वक्ष्यमाणलक्षणत इत्यर्थः। अनुक्रमः हस्तेषु वामदक्षिणादिक्रमेण ऊधिःक्रमेण चास्त्राणां सन्निवेशपरिपाटी। रूपम् आकृतिः।
१११। 'तर्जनी शङ्खचक्र च दण्डं प्राग् दक्षिणक्रमात्' इति स्यात् । एवमेव रूपमण्डने पाठः (३ अ० ६८ श्लो०)। ___ ११२ । 'अपसव्ये प्रचण्डक' इत्युक्त्यैव सव्ये चण्डक इति लभ्यते ; एवञ्च 'वामे चण्डः' इत्याद्यनुवादकमर्द्धं सुखार्थम् । यद्वा, सव्यशब्दस्य वामदक्षिणोभयवाचित्वेन अपसव्यशब्दस्यापि
For Private And Personal Use Only