________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
चतुर्थोऽध्यायः
[राहुः] सिंहासनगतं राहु करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं लिखेत् ॥५६॥
[केतवः] धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः। गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ ५७ ॥
[ग्रहमूतौ साधारणविधिः] (य? ग्रोहाः किरीटिनः कुर्यान् (कार्या?) नवतालप्रमाणकाः। रत्नकुण्डलकेयरहाराभरणभूषिताः ॥५८॥
इति नवग्रहाः।
वरदं वज्राङ्कुशञ्च कमण्डलुविधृत्करम् । गजारूढं सहस्राक्षमिन्द्रं पूर्वदिशि स्थितम् ॥५६॥
[अग्निः ] वरदं शक्तिहस्तञ्च मृणालञ्च कमण्डलुम् । ज्वालापुञ्जनिभं रूपं (देवं ?) मेषारूढं हुताशनम् ॥६०॥ ५८। अन्न 'गृध्राः' इति शिल्परत्ने (शिल्प० उ० २५।१५७ श्लो० ) पाठः। यद्यप्यत्र एकाक्षरविपरिणामलभ्या पाठशुद्धिः 'गृध्रा' 'ग्रहा'श्चेत्युभयमेव युगपद् बुद्धावाविर्भावयति, तथापि प्रकरणाद् ‘ग्रहा' इत्येव पाटः समीचीनतयाऽस्माभिनिर्धारितः। किञ्च यद्यत्र 'गृध्रा' इति पाठः स्यात्तदा 'नवतालप्रमाणकाः' इत्यनुपपन्न भवेत् , 'द्वाभ्यां प्रोक्ता विहङ्गमाः' ( २अ० ४श्लो०) इत्यनेन विहङ्गविशेषस्य गृध्रस्य द्वितालकत्वस्यैव युक्तत्वात् ।।
५९। वज्राङ्कुशमित्यस्त्यर्थेऽत् । एवम्भूतम् इन्दं चित्रविशारदाचित्रे कुर्युरित्यध्याहारेण द्वितीयान्तपदानामन्वयः । प्रथमार्थे द्वितीया वा, लेखकप्रमादाद बिन्दोरेकस्त्रुटितो वेति ज्ञातव्यम् ।
६०। वरदमित्यादि। मृगालञ्च कमण्डलुमिति दधानमिति शेषः, चित्रे कुर्युरित्येव । एवमुत्तरत्रापि यथासम्भवं दधानम् , दधानो वा, कुर्युः क्रियेत वेत्याद्यध्याहारेण वाक्यानामन्वयोपपत्तिर्द्रष्टव्या।
वरदः शक्तिहस्तश्न समृणालकमण्डलुः। ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥ इति रूपमण्डने (२१० ३१श्लो०)।
For Private And Personal Use Only