________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
देवतामूर्तिप्रकरणम् दक्षिणं बुधगं हस्तं वरदं परिकल्पयेत् । ऊर्दू शक्तिसमायुक्तं वामौ शूलगदाधरौ॥५०॥
[बुधः] सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् । पोतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ ५१॥ वरदं खड्गसंयुक्तं खेटकेन समन्वितम् । गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ ५२ ॥
[बृहस्पति-शुक्रौ] पीतो देवगुरुर्लेख्यः शुनश्च भृगुनन्दनः। चतुर्भिर्बाहुभिर्युक्तश्चिवकर्मविशारदैः॥५३॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा। दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ ५४॥
शनिः] शौरितिलसम्यमासं (शौरि तिलसमाभासं ?) गृध्रारूढं चतुभुजम् । वरदं बाणसंयुक्त चापशूलधरं लिखेत् ॥ ५५ ॥
स्योक्तत्वात् । बुनगमिति, बुन्नो वृक्षमूलम् । हस्तमिति अधोहस्तम् । यद्वा बुध्नपदेमात्र लक्षणयाऽधोदेशो ग्राह्यः, दक्षिणाधोहस्तं वरदं परिकल्पयेदित्यर्थः । 'पुस्तकं हस्तम्' इति शिल्परत्ने, 'बुद्धक' इति तद्वरं' इति तत्पादटिप्पण्यां पाठान्तराणि दृश्यन्ते । (शिल्प० उ० २५।१४५ श्लो०)। अयं शक्तिवराभयगदाधारीति शब्दकल्पद्रुमस्तग्रहयागतत्त्वलघुजातकादयः ।
५३-५४। तुल्यबाहुत्वात्तल्यप्रहरणत्वाच्च बृहस्पतिशुक्रौ तन्त्रेणाऽऽह-पीत इत्यादि । वरदावित्यादि द्विवचनन्तूभयापेक्षया, एवं 'बाहू' इत्यत्रापि । परमार्थतस्त्वनयोः प्रत्येकं चत्वारो बाहवश्नत्वारि चाऽऽयुधानीति ज्ञातव्यम् । एवञ्च वरोऽक्षसूत्रं कमण्डलुर्दण्डनेप्ति बृहस्पतेस्तान्येव च दैत्यगुरोरण्यायुधानीति ।
For Private And Personal Use Only