SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्त्तिप्रकरणम् नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥ इति सामवेदः । अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूलञ्च खट्टाङ्गं विभ्राणो विजयश्रिये ॥ १२ ॥ इत्यथर्वणः । नृत्यशास्त्र सितं रम्यं मृगवक्तं जटाधरम् । अक्षसूतं त्रिशूलञ्च विभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥ इति नृत्यशास्त्रम् | [ अथ ब्रह्मायतनेऽन्यदेवतापदम् ] आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे । ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥ वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) चैवोत्तरे स्मृताः । ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥ [ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ] ब्रह्मणे ( णोs ? ) टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् । पुरुषाकार गम्भीराः सकूची ( च ? ) मुकुटोज्ज्वलाः ॥ १६ ॥ For Private And Personal Use Only १४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति शास्त्रान्तरे कथितं गणदेव मित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः । १६ । पूर्वं ब्रह्मणचतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारानाह - ब्रह्म इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह - पुरुषेत्यादि । सकु इति । कूर्च - शब्दो नानार्थः । तत्र श्मश्रु इत्येकोsर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम् अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च - छिन्नमूला: कुशा दीर्घाः सप्तविंशतिसंख्यकाः । ब्रह्मन्थियुतास्त्वग्रदेशे कुर्वमिहोच्यते ॥
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy