________________
Shri Mahavir Jain Aradhana Kendra
४८
www.kobatirth.org
देवतामूर्त्तिप्रकरणम् दशताले भवद्रामो बलिर्वैरोचन ( नि?) स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्द्धास्ते च प्रकीर्तिताः ॥ ६ ॥ ताला एकादश स्कन्दो हनुमांश्चण्डिका तथा । भूतानाञ्च समस्तानामेष तालः प्रकीर्तितः ॥ १० ॥ ताला द्वादश वेताला राक्षसाश्च त्रयोदश । पिशाचाः क्रूरकर्माणः शस्यन्ते मुकुटैर्विना ॥ ११ ॥ तालाश्चतुर्दश प्रोक्ता दैत्येन्द्रा मुकुटैर्युताः । तिथ्या समानतालैश्च भृगुरूपं प्रकारयेत् ॥ १२ ॥ अत ऊर्द्ध न कर्तव्यं प्रमाणं कथयाम्यतः ।
[ सालानुसारेणावयवमानम्, तत्र सप्ततालेऽवयवमाननिरूपणम् ] सप्ततालं प्रवक्ष्यामि केशान्ते च त्रिमात्रकम् ॥ १३ ॥
१०-१२ | एकादशादिपञ्चदशान्तास्ताला नान्यनोपलभ्यन्ते । रूपमण्डने तु
•
'कलांशाः क्रूरदेवाः स्युरत ऊन कारयेत्' । (अ० १, २३ श्लो० ) इत्यनेन षोडश तालाः क्रूरदेवानां मानमित्युक्तम् । यच्च काश्यपशिल्पेएका दिन हस्तान्तं नवधा हस्तमानकम् ।
सालादिनचतालान्तं तथा नवविधं भवेत् ॥ ( अ० ५०, ३४ लो० ) एवञ्च सत्यामपि पूर्वार्द्ध हस्त
Acharya Shri Kailassagarsuri Gyanmandir
इति नवतालान्तं तालमानमुक्तं तत्तु सामान्यत इति ज्ञेयम् । मानस्य नवधात्वोक्तौ यत् पूर्वम्
दशादिकरवृद्धया तु षट्त्रिंशत् प्रतिमाः पृथक् ।
बाणवेदकरान् यावच्चतुष्क्यां पूजयेत् सुधीः ॥ ( अ० १, १९ श्लो० )
इत्युक्तम्, तस्यापि विशेषान्तः पातान्नासामञ्जस्यमिति ध्येयम् ।
१३ । इदानीं कियत्तालानां प्रतिमानां कियन्त्यङ्गमानानीति वक्तुमादौ सप्ततालप्रतिमाया अङ्गमानमाह - सप्ततालमिति । रूपमण्डने तु पट्तालप्रतिमाया अव्यङ्गविभाग उक्तः; तथा चमुखं तालद्वयं तस्य जठरं तत्समं भवेत् । गुह्यं वेदाङ्गुलम् ऊरू सप्तजङ्घा च तत्समा ॥
For Private And Personal Use Only