SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयोऽध्यायः [ माननिर्णयः] छाया रेणु(श्च?) बालाग्र-लिक्ष-यूका यवोऽङ्गलः । क्रमाद्दशगुणं मानं ज(जि?)नसंख्यः करा(रोऽ?)कुले ॥१॥ १। छायेति । एतेषां छायाद्यगुलान्तानां सप्तानां पदार्थानां यथोत्तरं दशगुणं मानमित्यर्थः । तथा च-छायाया दशगुणं रेणोर्मानम् , रेणोदशगुणं बालाग्रस्य केशकोटेर्मानम् , ततो दशगुणं लिक्षस्य, ततो दशगुणं यूकस्य, ततो दशगुणं यवस्य, ततो दशगुणञ्चाङ्गुलस्य मानमिति स्पष्टार्थः । अत्र छायापदार्थनिर्णयो दुष्करः, क्वापि तादृशार्थकपाठानुपलब्धः। बृहत्संहितायाम् परमाणुरजोबालाग्रलिक्षयूकं यवोऽङ्गलं चेति । अष्टगुणानि यथोत्तरमङ्गलमेकं भवप्ति संख्या ॥ (अ० ५७, २ श्लो.) इति छायास्थाने परमाणुपदमाह। अन्यत्र परमाणुस्वरूपमुक्तम् जालान्तरगते भानौ यन् सूक्ष्म दृश्यते रजः । प्रथमं तत् प्रमाणानां परमाणु प्रचक्षते ॥ इति । तस्मादत्र छायापदं परमाणुसमानार्थकमिति प्रतीमः। रेणुवान्यन्त्र रजःपदेन व्यपदिष्टस्त्रसरेणुरूपः। तथा च शिल्परत्नपूर्वभागे मानमधिकृत्य परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । ब्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः ॥ तदृष्टभिस्तु बालागं लीक्षा बालाग्रकाष्टभिः । इति (अ० २, १-२ श्लो०) एतदपि स्मृत्यन्तरविरुद्धम् , 'अणुगौं परमाणू स्यात् भ्रसरेणुस्त्रयः स्मृतः' (स्क-३, अ० ११, श्लो० ५) इति भागवतीयात् । यव इति यवोदरम् ; तथा च शब्दकल्पद्रुमश्त-लीलावत्याम् _ 'यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः पद्गुणितैश्रतुभिः। इति । शिल्परत्नपूर्वभागेऽपि 'यवोदरैः षड्गुणैर्वा' इत्युतम् । शब्दकल्पद्रुमे तिध्यादितत्त्वरतकालिकापुराणमपि यवानां तण्डुलै रेवमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितः ... ... ॥ इत्याह । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy