________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः
[भौमाद्भुतम्] भौमं चरस्थिरभवं... ... ...
[एषां शान्तिनिवर्त्तनीयत्वानिवर्तनीयत्वविकल्पः ]
___ तच्छान्तिभिराहतं शममुपैति। नाभसमुपैति मृदुतां शमीत न दिव्यं वदन्त्येके ॥४०॥ दोनाम् ऋक्षाणाम् अश्विन्यादिनक्षत्राणां यदु वैकृतम् अन्यथाभाधस्तद दिव्यम् अद्भुतमिति शेषः । अन्न प्रकृतोऽप्युत्पातो लिङ्गभेदाद 'दिव्येन' न सम्बध्यते एवमुत्तरत्रापि। यद्वा वैकृतमेवान्न विशेष्यम् , ग्रहक्षकृतं यद् वैकृतं तद दिव्यमित्यर्थः।
आन्तरिक्षमाह-उल्केत्यादि। उल्कास्वरूपमाह बृहत्संहितायाम्'दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः' (अ० ३३, १ श्लो०) इति । केचित् पुनर्लोकानां शुभाशुभसूचनाय लोकपालास्तान्यस्त्राण्येवोल्का इत्याहुः । तथा चोत्पलभरतगर्गः
स्वास्त्राणि संसृजन्त्येते शुभाशुभनिवेदिनः ।
लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥ इति । निर्घात इति । निर्घातमाह बृहत्संहिताविवृतौ उत्पलभदृतगर्गः
यदाऽन्तरिक्ष बलवान् मारुतो महताहतः ।
पतत्यधः स निर्घातो भवेदनिलसम्भवः ॥ इति । पवनो विकृतो वायुः। परिवेश इति । तत्स्वरूपमाह बृहत्संहितायाम्
सम्मूच्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः।
मानावर्णाकृतयस्तन्वभ्रे व्योनि परिवेशाः ॥ इति । गन्धर्वपुरम् आकाशे दृश्यमानं पुराकृति प्रसिद्धम् । इन्द्रचापम् आकाशे दृश्यमानं धनुराकृति चिह्नम्। तथा च बृहत्संहितायाम्
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ इति । प्रकारान्तरमाह उत्पलभट्टरतकाश्यपः
अनन्तकुलजाता ये पन्नगाः कामरूपिणः ।
तेषां निश्वाससम्भूतमिन्द्रचापं प्रचक्षते ॥ इति । एते यत् तदान्तरिक्षम् अद्भुतमिति। गन्धर्वपुरन्दरेत्यन्न एक 'पुर'पदं लेखकप्रमादात् पतितमिसि प्रतिभाति । 'चापांसी'त्यप्यपपाठः ।
४०। भौममुत्पातमाह-भौममिति । परस्थिरभवमिति चरेभ्यः स्थिरेभ्यश्च वस्तुभ्यो
For Private And Personal Use Only