________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति । संसूचयन्त्यतिदिशान्तरिक्षभौमां तथोत्पातः ॥३७॥ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्र प्रयुञ्जीत ॥३८॥
[दिव्याभुतम्] दिव्यं ग्रहर्तवकृतम्... ... ...
[आन्तरिक्षाभुतम् ]
.... ... ... उल्कानिर्घातपवनपरिवेशाः। गन्धर्वपुर(पुरपुर)न्दरचापांसि(पादि?) यदान्तरिक्षं तत् ॥३६॥
अन ते वर्णयिष्यामि यदुवाच महातपाः ।
अनये वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥ (अ० २२९, २श्लो०) इति। तेषाम् अद्भुतानां सङ्क्षपः समासेन संग्रहस्तु प्रकृतेरन्यत्वं स्वभावस्यान्यथाभावः वैपरीत्यमिति यावत् । तथा च बृहत्संहिताविवृतौ उत्पलभस्तसमाससंहितायाम्
यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः ।
क्षितिगगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥ इति । ३७। संसूचयन्तीति। सर्वाङ्गक्षतमिदं श्लोकार्द्ध कथं प्रतिक्रियेतेति पर्याकुलैरस्माभिर्मूले संशोधनप्रयासः परित्यक्तः। परमर्थग्रहार्थं संवादिप्रमाणमुद्भियते। तथा च बृहत्संहितायां यथोक्तपूर्वार्धात् परम्
'संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः' (अ० ४५, २ श्लो०)। इति प्रकृतार्द्धसमार्थकः पाठः । 'नराणाम् अपचारेण पापसञ्चयो भवति पापसञ्चयादुपसर्गा उपद्रवाः। तथा च गर्गः
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ इति । ततो दिव्यान्तरिक्षभौमा उत्पाताः शान् उपसर्गान् संसूचयन्ति ।' इति तदुविकृती उत्पलभट्टाः।
३९। इदानीमुत्पातान् विभजन् दिव्यस्वरूपमाह-दिव्यमिति। प्रहाणाम् आदित्वा
For Private And Personal Use Only