SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमोऽध्यायः [ शिलाधाहरणक्षणः ] सुदिने शुभनक्षत्रे शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कार्यं न चान्यथा ॥ १० ॥ इति शिलापरीक्षा काश्यपः Acharya Shri Kailassagarsuri Gyanmandir इत्येकान्तकृष्णाया एव दोषश्रुतेः, "हरिता कृष्ण शिला ग्राह्या सितवर्णा विशेषतः" इति (अ० ४९, ५० श्लो०) चेषत्कृष्णाया ग्राह्यत्वविधानाच्च । अग्निपुराणे तु — "पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्" (अ० ४३, १२ श्लो०) इत्यविशेषेण सर्वेषामेव ब्राह्मणादिवर्णानां सर्वाऽप्यरुणपीतादिशिला प्रशस्तेत्याह । इह तु कासाञ्चन कृष्णानां कासाञ्चन पीतानामविशेषेण च श्वेतानां शुभावहत्वमाह- कपोतेत्यादिना । तथा च कपोतादिवत् कृष्णशिला, घृतवत् पद्मवञ्च पीतशिला श्वेतशिला च सर्वार्चासु प्रयुक्ता कर्त्तुः सुखमावहतीति श्लोकार्थः । १० । सुदिन इति । शुभनक्षत्रे कर्तुरिति ज्ञेयम्, सुदिने इति सामान्यतोऽभिधाय विशिष्य पुनर्नक्षत्रोपादानस्य फलाभावात् । मुदिनञ्च ज्योतिःशास्त्रादाववलोकनीयम् । विश्लिष्याह मयमते च शिलाद्याहरणं प्रकृत्य શ "सुमासतिथिनक्षत्रलनबारे शिलां ग्रहेत्” इति । (अ० ४९, १८ श्लो०) For Private And Personal Use Only उत्तरायणमासे तु शुक्लपक्षे शुभोदये । प्रशस्तपक्षनक्षत्रे मुहूर्ते करणान्विते ॥ इति । (अ० ३३, १९-२० लो०) शकुने शान्तचेष्टित इति । शकुने शुभाशुभाशंसिनि निमित्ते शान्तचेष्टिते शान्तं सौम्यं कर्मानुकूलमिति यावत् चेष्टितं यत्र तादृशे सति । शकुनमाह काश्यपशिल्पे वायसं दक्षिणे वामादागतञ्च तथैव च । येनं वै दक्षिणे वामे गृधं मांसेन संयुतम् ॥ कन्यागोदर्शनञ्चैव गावस्त्वावाहनं तथा । दधिना पूर्णकुम्भञ्च क्षीरकुम्भं तथैव च ॥ पुष्पं पुष्प वापि सुतवती यु (वयु) वतिस्त्रियः । अन्नञ्च मांसहास्व (हार) शिवभक्तिपरायणम् ॥ ज्वालानलञ्च दीपञ्च जलैः पूर्णघटावृतम् । त(व) राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥ शुभान्येतानि भौमानि अशुभं विपरीतकम् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy