SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मफलानि सिद्धान्तपदानि शिक्षेतादद्यात्, तस्याचार्यादेरन्तिके समीपे विनयं प्रयुञ्जीत, विनय एव वैनयिकं, तत्कुर्यादिति भावः, कथं विनयं कुर्यादित्याह-गुरुं सत्कारयेत्, केन ? अभ्युत्थानादिना पूर्वोक्तेन युक्तः, पुनः शिरसा मस्तकेन प्राञ्जलिः सन, तथा कायेन शरीरेण, तथा गिरा वाचा, 'मस्तकेन वन्द' इत्यादिरूपया, भो इति शिष्यस्यामन्त्रणे, मनसा भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धच्छेदनप्रसङ्गात्, १२| लज्जा दया संजमबंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयति तेहिं गुरू सययं पूअयामि १३. जहा निसंते तवणचिमाली पभासई केवलभारहं तु । एवायरिओ सुअसीलवुद्धिए विरायई सुरमझे व इंदो १४. एवं च मनसि कुर्यात्-लजेति-लजा दया संयमो ब्रह्मचर्य च, एतच्चतुष्टयं कल्याणभागिनो मोक्षाभिलाषिणो जीवस्य | विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन च विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, तत्र लज्जा अपवादभयरूपा, दया अनुकम्पा, संयमः पृथिव्यादिविषयः, ब्रह्मचर्य विशुद्धतपोऽनुष्ठानम्, एतत्कथनेनैतज्जातं, ये गुरवो मां सततं निरन्तरमनुशासयन्ति कल्याणयोग्यतां नयन्ति, तानहमेतादृशान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजायोग्य इति. १३. अतः कारणादेते। For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy