SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8605 उद्दामफलदां गुर्वीमुर्वीमुदधिमेखलाम् । भक्तिभूमिपतिः शास्ति शिवपादाब्जषट्पदः ॥ तस्य पुत्रश्चा(गमवित् समुद्र)बिरुदाङ्कितः । सोमसूर्यकुलोत्तंसो महितो मन्वभूपतिः ॥ वक्ता दि(विह)त्सभामध्ये काव्यालापकथान्तरे । अपृच्छदमृतानन्दमादरेण कवीश्वरम् ॥ वर्णरूपं काव्यवृत्तिं रसान् भावाननन्तरान् । नेतृभेदानलङ्कारान् दोषानपि च तद्गुणान् ॥ नाट्यधर्मान् रूपकोपरूपकानां भिदा अपि । चाटुप्रबन्धभेदांश्च(विकीर्णी)स्तत्र तत्र तु ॥ संचित्यैकत्र कथय सौ(कर्या)य सतामिति । मया तार्थितेनेत्थममृतानन्दयोगिना || ग्रन्थान्तरोदितानान् वाक्येनैव कचित्कचित् । (संचिन्त्य क्रियते सम्यक् सर्वालङ्कारसंग्रहः) ॥ अकारादिक्षकारान्ता वर्णास्तु पदतां गताः । पदानि द्विविधानि स्युः तिसुबन्तविभेदतः ॥ सञ्चयास्ति(सुबन्तानां वाक्यान्याहुर्विपश्चितः) । तान्येव कविक्लप्तानि सार्थानि सरसानि च ॥ सालङ्काराणि निर्दोषाण्याहुः सर्वे विपश्चितः । गद्यं पधं च मिश्रं च त्रिविधं काव्यमुच्यते ॥ End: ऐतिहमिति विज्ञेयं प्रमाणं पण्डितैर्यथा || यासि भीरु ननु तक निशीथे ध्वान्तरुद्धदशदिक्प्रतिभागे । वर्मनीह वटभूरुहवृक्षे(हि यक्षः) तिष्ठतीति न जना विचरन्ति ॥ नानाविधालंकृतिमच्छवी कन्यामिवैनां कवितां वृणीष्व ।। अस्यां यशःसन्ततिढद्धिरस्तु विवेकविद्याधरमन्वभूप ॥ Colophon: इति श्रीअमृतानन्दयोगिप्रवरविरचिते अलंकारसंग्रहे अलंकारनिर्णयो नाम पञ्चमः परिच्छेदः ॥ For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy