SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १०५ ।। www.kobatirth.org नि०- वासड़ न तणस्स कए न तणं वहइ कए मयकुलाणं । न य रुक्खा सयसाला फुल्लन्ति कए महुयराणं ।। ९९ ।। वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानां अर्थाय तथा न च वृक्षाः शतशाखाः पुष्यन्ति कृते । अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थं पाकं निर्वर्तयन्तीत्यभिप्राय इति गाथार्थ: ।। ९९ ।। अत्र पुनरप्याह नि०- अग्गिम्मि हवी हुयइ आइचो तेण पीणिओ संतो। वरिसड़ पयाहियाए तेणोसहिओ परोहति ।। १०० ।। इह यदुक्तं "वर्षति न तृणार्थ' मित्यादि, तदसाधु, यस्मादनौ हविर्ह्रयते, आदित्यः तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थं ?- प्रजाहितार्थं लोकहिताय, तेन वर्षितेन, किं ?, औषध्यः प्ररोहन्ति उद्गच्छन्ति, तथा चोक्तं- अग्नावाज्याहुति: सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ १ ॥ इति गाथार्थः ॥ १०० ।। अधुनैतत्परिहारायेदमाह नि०- किं दुब्भिक्खं जायइ ? जड़ एवं अह भवे दुरिहं तु । किं जायड़ सव्वत्था दुब्भिक्खं अह भवे इंदो? ।। १०१ ।। नि०- वासड़ तो किं विग्धं निग्धायाईहिं जायए तस्स । अह वासइ उउसमए न वासई तो तणट्टाए ।। १०२ ।। किं दुर्भिक्षं जायते यद्येवं ?, कोऽभिप्रायः ?- तद्धविः सदा हूयत एव, ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद् दुरिष्टं तु दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरं किं जायते सर्वत्र दुर्भिक्षं ?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च- सदैव देवाः सद्द्रावो, ब्राह्मणाश्च क्रियापराः । यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः ॥ १ ॥ इत्यादि, अथ भवेदिन्द्र इति, किं ?, वर्षति, ततः किं विघ्नः अन्तरायो निर्घातादिभिर्जायते ?, आदिशब्दाद्दिग्दाहादिपरिग्रहः, तस्य इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थम्, © वर्षातृणानि तस्य प्रतिषेधे इत्येतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति वचनात् प्रतीयते यदुतैता एकोनविंशतिर्भाष्यगाथाः । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् २ भ्रमरोदाहरणं । निर्युक्तिः १९-१०२ दृष्टान्त विशुद्धावाक्षेप परिहारौ। ।। १०५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy