SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। धर्मप्रतिकरा राज्ञः स्त्रीबालवृद्धास्तपस्विनस्तेभ्यः क्रोधं नियच्छेत् । . जन्म शुबकुलता। कर्माग्निहोत्रादि। श्रुतं वेदवेदाङ्गगोचरं ज्ञानम्। शौचं वाह्यमाभ्यन्तरञ्च । एतद्युक्ता अपि न दण्ड्याः। यतस्ते राज्ञो धर्मप्रतिकराः षड्भागरूपधर्मोपार्जनेनोपकारिणः।। __ अब स्त्रीबालवृड्वा इत्यनेन त्यादौनामप्यदण्यत्वमुक्तमिति रत्नाकरः। तपस्विन इति विशेषणदर्शनाद्धेतुमनिगदस्वरसाच्च तेषामपि तपस्विनामेवादण्डः । बालादौनामपि वृहस्पतिना ताडनस्मरणात्। स्त्रिया अपि भागिनेयादिगमने लिङ्गच्छेद-बधयोह)नागमने कर्णकर्तनस्य च याज्ञवल्क्येन स्मरणादिति प्रतिभाति । यथा च कात्यायनः आचार्य्यस्य पितुर्मातुर्बान्धवानां तथैव च । एतेषामपराधेषु दण्डो नैव विधीयते ॥ बृहस्पतिः,प्रतिलामास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः । ब्राह्मणातिकमे बध्या न दातव्या दमं क्वचित् ॥ दातव्याः दापयितव्याः। कात्यायनः, अस्पृश्य-धूर्त-दासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां ताडयेन्नार्थतो दमः ॥ १ ध नियच्छेत । २ घ पुस्तके इति पदमधिकम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy