SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डनिमित्तेषु दण्डभेदव्यवस्था । यति तत्रेति ऐश्वर्यापेक्षया राजामात्यादीनामप्यधिकदण्ड्यत्वमुक्तं युक्तम् । एवमेव नारायणः । अचात्मदण्डञ्च राजा प्रकल्पयेत्। तच्च ब्राह्मणेभ्यो दद्यात् अस वा क्षिपेत्। ईशो दण्डस्य वरुण इत्यादेर्मनुनैवाभिधानादिति कुल्लकेन मनुटौकायामुक्तम् । तत्र प्रतिभाति महापातकिनां धनदण्डं विचार्य तस्य स्वयं विनियोगे राज्ञस्तत्यापमतिदिश्य वरुणब्राह्मणान्यतरप्रतिपत्तिं विधाय मनोरयमनुवादो दण्डवाधप्रकरणपरिसमाप्तौ दर्शितः। न चायं राज्ञः स्वदण्डं स्पष्टुमौष्टे प्रतिपत्त्या तदाक्षेप इति चेन्न तस्यानियतविषयत्वात्। आरभ्याधीतत्वात् , तं दण्डमिति वचनाच्च । तस्माद्राज्ञामवान्तरनरपतौनामिति रत्नाकरोक्तमेव न्याय इति द्रष्टव्यम्। स्वस्य स्वयं दण्डनानुपपत्तेः। यत्तु नारायणेन- किं बहुना सोऽपि दण्ड्य एवेत्याहेति कृत्वा वचनमिदमवतारितं तत्रापि शब्दस्वरसात्कमुतिकन्यायो मूलं तस्य चान्येषां दण्डदाय तात्पर्यम् । वरुणब्राह्मणयोरन्यतरस्मिन् श्रुतराजदण्डसमद्रव्यप्रक्षेपस्तु न दण्डः। तत्त्वेन तत्प्रतिनिधित्वेन वाऽनुपदेशात् । प्रत्युत समनन्तरमेव_. “यत्र वर्जयते राजा पापकृड्यो धनागमम् ।” इत्यादिना तदनत्यागस्यैवोपसंहारात् । एवं सति प्रधानस्य राज्ञो दण्डाभावे पापानिवृत्तिः For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy