SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૫૪ www.kobatirth.org विवेकः । माषावरार्डो यः प्रोक्तः कार्षापणपरस्तु सः । कार्षापणावराद्यस्तु चतुःकार्षापणावरः' ॥ ह्यवरोऽष्टपलान्तश्च त्र्यवरो द्वादशोत्तरः ॥ अ कार्षापणपदान्माष इति गम्यते । यत्तु,— Acharya Shri Kailassagarsuri Gyanmandir काकिन्यादिस्त्वर्थदण्डः सर्व्वस्वान्तस्तथैव च । इति शङ्खनोक्तं [तन्नानुबन्धतारतम्यविषयम्, अपि तूत्कर्षावधिकथनपरम्। यथा नारदेनेव शङ्खनैव चोक्तम् । शारौरस्त्ववरोधादिर्जी वितान्तस्तथैव चेति । ] उक्तानुक्तसर्व्वसाधारणौं सौमामाह । कार्षापणाद्या ये प्रोक्ताः सर्व्वे ते स्युश्चतुर्गुणाः । एवमन्येऽपि विज्ञेयाः प्रागेते पूर्व्वसाहसात् ॥ पूर्व्वसाहसः सार्द्धं पणशतद्वयम् । तस्मात्प्राग् ये दण्डविशेषास्ते ऽनुबन्धगौरवात् पापातिशये चतुर्गुणा ग्राह्याः । पूर्व्वसाहसादौ तु पापातिशयेऽपि चातुर्गुण्यं नास्तौत्यर्थ इति रत्नाकरः । एवञ्च शारौरादिदण्डसमुच्चयस्तत्रापि न विरुद्धः । योज्यः समस्तश्चैकस्य महापातककारिणः ॥ इत्यादौ वाग्धिग्धनदण्डादिसमुदायविधानात् । मनुः, कार्षापणं भवेद्दण्ड्यो यत्राऽन्यः प्राकृतो जनः । तत्र राज्ञां भवेद्दण्डः सहस्वमिति धारणा ॥ १ ग चतुः कार्षापणः परः । पुस्तके[ ] चिहितांशः पतितः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy