SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। VXWav ~ ~ ~ ~ तथाहि पूर्वश्लोकार्थः। तेषु तेष्वपराधेषु मन्वाद्यक्ततत्तद्दण्डनियमं गागौंयमानवा गर्गशिष्या वदन्ति। गौतमस्तु नियमं न मन्यते । दण्डस्य दत्तनिवर्तकतया दृष्टार्थत्वेन यावता तन्नित्तिस्तावत एव शास्त्रार्थत्वात् । तन्निवृत्तौ तस्य तस्यौत्सर्गिकत्वेन मन्वादिभिस्तथातथाभिधानादिति । एतन्यायमूलकमेव संग्रहप्रकरणीयम् । बृहस्पतिवचनम्, चयाणामपि चैतेषां प्रथमोत्तममध्यमः। विनयः कल्पनीयः स्यादधिको द्रविणाधिकः ॥ इति तथा कार्षापणं भवेद्दण्ड्य इत्यादि मनुवचनं तन्यायमूलकमेव । यच्चाधिकृतगुरुविप्राणामाकोशे निर्भर्त्सनं ताडनं गोमयालेपनं खरारोहणं दर्पहरो दण्डो वेति शङ्खलिखिताभ्यामुक्तं तस्याप्युक्त एवार्थे तात्पर्य्यम् । कात्यायनौयेनैकमूलकत्वे लाघवात् । आध्यादीनां विहारमित्यादियाज्ञवल्क्यवचने मिताक्षराकारः। दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् इत्यनेन दण्डस्य दमनार्थत्वावगमाद् यस्य तत्समदण्डेन विहितेन दमनं न भवति तस्य तदधिको दण्डो निर्धनस्य तु यावता पोडा तावानेवेति एतदुक्तं वेति स्फुटम् । तदेवं यस्मिन् कर्माणि शृङ्गग्राहिकया यो दण्डो विहितः, तं दत्त्वाऽपि यस्तस्मिन्नेव प्रवर्तते तस्य तदधिको - - --- -- - - - For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy