SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डनिमित्तेषु दण्डभेदव्यवस्था । अथ दण्डोत्कर्षः । तत्र कात्यायनः,अर्थवन्तो यतः सन्तो यथोक्तानपि ते दमान् । दद्युर्नैवोपशाम्येरन् तस्मात्तेषु न निश्चयः ॥ तस्मादव्याहताः पापा येन येनाशुभं पुनः । न कुर्य्यस्तत्तदेवास्य कर्त्तव्यमिति निश्चयः ॥ न निश्चयो न विहितदण्डसंख्यानियमः इति निश्चय इति सिद्धान्तः । ५१ अचापराधेषु नियम माहुर्गागौयमानवाः, - दण्डनीयः स शैथिल्यात् प्रथमं वेति गौतमः । इति पूर्व्वश्लोकं पूर्व्वं लिखित्वा अव्याहताः पापा इत्यत्रापोहताः पापा इति पठित्वा हलायुधेन व्याख्यातम् । अस्य सर्व्वस्यायमर्थः । अपराधेषु यो यस्य दण्डो विहितः स प्रथमे च न कर्त्तव्यः किन्तु यदा तस्मिन् दण्डे प्रयुज्यमाने दण्डनीयस्यापराधक्रियायां शैथिल्यं वैमुख्यमवगतं भवति तदा प्रणेतव्यः । ये तु विहितदण्डकरणेऽपि पापादुपशान्ता न भवन्ति ते राजा पापानपोहता येन येन पुनः पापक्रियायां न प्रवर्त्तन्ते तं तमेव दण्डं तेषां प्रयुज्ञ्जौतेति । १ग नियतम् । यत्तु रत्नाकरे— शैथिल्याद्दण्डहेतुकर्म्मनिश्चयशैथिल्यात् तदनिश्चयादिति पूर्व्वा व्याख्यातम् । तञ्चिन्त्यम् । अपराधासिद्धौ दण्डस्य प्राप्यभावेन प्रतिषेधायोगात् । विषयभेदेन मतभेदोपन्यासायोगाच्च । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy