SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org दण्ड़विवेकः । Acharya Shri Kailassagarsuri Gyanmandir परिमाणतो यथा मनुः, - धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिको दमः । तथा नारदः, रत्नानाञ्चैव सर्व्वेषां शतादभ्यधिको बधः । विनियोगतो यथा कात्यायनः, - वनस्पतीनां सर्व्वेषां विनियोगो यथा यथा । तथा तथा दमः कार्य्यो हिंसायामिति धारणा ॥ एवमन्यदपि वक्ष्यमाणदण्डदर्शनादूह्यम् । सेयं व्यवस्था अनेकविधा । तच — वाधाऽपकर्षसाम्यानामुत्कर्षपरिनिष्ठयोः । भेदेन दण्डभेदानां व्यवस्था पञ्चलक्षणा ॥ इति संग्रहः । तत्र बाधश्च साधारणो यथा आपस्तम्बः,आचार्य्य ऋत्विक् स्नातको राजेति चाणं स्युरन्यत्र वध्यात् । राजा अवान्तरनरपतौनामिति प्रतिभांति आचार्य्यादयो दण्ड्यानां चाणं स्यर्वध्यवज्र्ज्जमित्यर्थः । अत्र कल्पतरौ चाणं स्युस्त्रातारो भवेयुर्न कथञ्चित् दौः शौल्येन तिष्ठेयुरिति व्याख्यातम् । मनुः, - क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्य्यिणां नृणाम् । बालवृड्डातुराणाश्च कुर्व्वतां हितमात्मनः ॥ १ क पुस्तके ह्यधिकं बधः, ग पुस्तके अभ्यधिके बधः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy