SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ दण्डविवेकः। अथ दण्डनिमित्तेषु दण्डभेदव्यवस्था। जातिव्यं परिमाणं विनियोगः परिग्रहः । वयः शक्तिर्गणो देशः काला दोषश्च हेतवः ॥ इति व्यवस्थौपयिकवर्गसंग्रहः। अत्र परिग्रहो नृपदेवद्दिजादेः। वयो धृतस्य पुरुषादेाल्यादिः। शक्तिरपराधिनो वित्तसम्पत्त्यादिः। गुणोऽपि तस्यैव न्यूनाधिकदण्डप्रयोजकः। देशो ग्रामारण्यादिः। कालो दिवारात्यादिः। दोषोऽपराधविशेषः । स विविधः, अनुबन्धोऽननुबन्धश्च तत्रानुबन्धो नाम पुनः पुनरिच्छया मन्दक्रियाकरणं चकारात् प्रत्यासत्त्यादिसंग्रहः। त इमे सामान्यतो दण्डस्य लघुगुरुभावहेतवो भवन्ति । तथाहि जातितो विशेषो दृश्यते । यदाह विष्णः, अष्टापाद्यं स्तयकिल्विषं शूद्रस्य द्विगुणोत्तराणौतरेषां प्रतिवणं विदुषोऽतिक्रमे दण्डभूयस्त्वम् । अष्टभिरापाद्यते गुण्यते इत्यष्टापाद्यमष्टगुणमित्यर्थः । किल्विषमिह दण्डस्तेन विदुषोऽतिक्रमे दण्डभूयस्वमित्युपसंहारे हेतुवन्निगदस्वरसाद्यस्मिन्नपहारे यो दण्ड उक्तः स विदच्छूद्रकर्तृके तस्मिन्नष्टगुण आपादनौयः। प्रतिवर्ण द्विगुणोत्तराणि उत्तरोत्तरं द्विगुणानि किल्विषाणौत्यर्थोऽन्वयः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy