SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धनदण्ड़-संख्या । तथा, -- Acharya Shri Kailassagarsuri Gyanmandir er व्यवहारिक नैगमादिसंज्ञा । तत्र कात्यायनः, नानापौर समूहस्तु नैगमः परिकीर्त्तितः । नानायुधभृतो व्राताः समेताः परिकीर्त्तिताः ॥ समूहो वणिगादीनां पूगः संपरिकीर्त्तितः । प्रव्रज्यावसिता ये तु पापण्डास्तु उदाहृताः ॥ ब्राह्मणानां समूहस्तु गणः संपरिकीर्त्तितः । शिल्पोपजीविनो ये ते शिल्पिनः परिकीर्त्तिताः ॥ तां सौगतादीनां समूहः सङ्घ उच्यते । चाण्डालश्वपचादौनां समूहो गुल्म उच्यते ॥ गण-पाषण्ड-पूगाश्च व्राताश्च श्रेणयस्तथा । समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ॥ नानायुधेति व्राताः प्रकीर्त्तिता इत्यन्वयः, गुल्म इति अत्र गुल्मः पदातिसमूह इति राजधम्मे लक्ष्मौधरः । तद्योगतामादायेति न विरोधः । अत्र श्रेणयो वणिक्समूह इति रत्नाकरः । १ क पुस्तके श्रेयः । ३१ ^^^^^^^^ चतुर्वर्णस्य या स्मृतिरसजातिसमुद्भवा । तस्या धर्म्मः समुद्दिष्टः साऽजातिः परिकीर्त्तिता ॥ 'असजातिरसवर्णः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy