SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनदण्ट-संख्या। २६ एवञ्च माषादिशब्दानां नानार्थतया दण्डविधा'वनध्यवसाये व्यवस्थामाह। कात्यायनः,माषः पादो दिपादो वा दण्डो यत्र प्रकल्पितः । अनिर्दिष्टन्तु सौवर्ण माषं तत्र प्रकल्पयेत् ॥ यत्रोक्तो माषको दण्डो राजतं तत्र निर्दिशेत । कृष्णलञ्चोक्तमेव स्यादुक्तं दण्डविनिर्णये ॥ यत्र माषको दण्ड इत्युक्तं तत्र राजतो माषको ग्राह्यः । यत्र माषो दण्ड इत्युक्तं तत्र सौवर्ण एव ग्राह्य इत्यर्थः । एतच्च विशेषविधेरन्यच द्रष्टव्यम् । स यथा प्रकीर्णके मनुः, हैरण्यं चैव माषकमिति । अतएव शस्यघातकदण्डे माषश्रुतावपि राजत एव माषो ग्राह्यो वचनात् । तथाहि रत्नाकरे भाष्यकारः, सौवर्णैर्माषकैः संख्या दण्डकर्मसु कथ्यते । पशूनां शस्यचरणे माषैरन्यैस्तु राजतैः ॥ मिताक्षरायान्तु, माषानष्टौ तु महिषी शस्यघातस्य कारिणी। इत्यच माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः । माषो विंशतिभागस्तु पणस्येति नारदवचनादित्युक्तम् । इह सौवर्ण निष्कं दद्यादिति विशेषविधौ हेमप्रमाणभूतस्वर्णचतुष्टयमितं सुवर्ण निष्कशब्दवाच्यमन्यत्र तु तावन्मितं रजतमेवेति महार्णवकता व्यवस्था दर्शिता । १ ग पुस्तके दण्डविधानानध्यवसाये। २ घ माकं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy